पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२०६

पुटमेतत् सुपुष्टितम्
196
अलंकारमणिहारे

 एवं सहावस्थानादिकमपि संबन्धान्तरमाश्रयणीयमेव । यथा--

 हरिहृच्छाणोल्लेखोट्टङ्कितकौस्तुभकलङ्करेणुकणाः । नभसि क्वचन समूढा नभस्वता भास्वदाख्यया भान्ति ॥ ९६२ ॥

 कौस्तुभस्य कलङ्कः जलधिजननसमयलग्नपङ्कशैवलादिरूपः । समूढाः समूहीकृताः । अत्र कलङ्करेणूनां कौस्तुभस्य च सहावस्थितिस्संबन्धः । अत्र भास्वति भास्वत्त्वमपह्नुत्य तत्र नभस्वत्संपुञ्जितकलङ्करेणुकणत्वारोपेणाप्रस्तुतेन तत्सहावस्थितस्य प्रस्तुतस्य कौस्तुभरत्नस्यानन्तभास्करभासुरत्वं प्रत्याय्यते ॥

 यथावा--

 भूतलसपदिसमुद्गतसीतातनुलग्नरेणुकणनिकराः । अभिषेकजलैर्जलधिं नीतास्स्फीताश्च रत्नतां याताः ॥ ९६३ ॥

 अत्र पूर्वार्धेन--

उत्थिता मेदिनीं भित्वा क्षेत्रे हलमुखक्षते ।
पद्मरेणुनिभैः कीर्णा शुभैः केदारपांसुभिः ॥

इत्युक्तोऽर्थः प्रत्यभिज्ञाप्यते । अभिषेकजलैः अवतारकालिकमङ्गळाभिषेकसलिलैः । जलधिं नीताः गङ्गादिनदीद्वारेति भावः । स्फीताः जले निहिताश्चणकादय इवोच्छूना इति भावः । स्पष्टमन्यत् । अत्रापि पूर्वोदाहरणवत्सहावस्थितिरेव सीतातनुभूरेणूनां संबन्धः भूरेणुकणानां रत्नत्वेन संभावनात्तत्सहावस्थितसीतादिव्यमङ्गळविग्रहलावण्यप्रकर्षस्य निरवधिकत्वं प्रतीयते ।