पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२१०

पुटमेतत् सुपुष्टितम्
200
अलंकारमणिहारे

रणभूतयोर्लक्ष्मीकटाक्षान्वयव्यतिरेकयोः प्रभावो निरङ्कुशः प्रस्तुत एवावगम्यते । अत्रापि पूर्वोदाहरणवदेव कार्यकारणभावः ॥

 यथावा--

 गोपालको भवन्नप्यपाकृतश्चेत्त्वया जगज्जननि। गोलक एव स भविता चातुर्वर्ण्योज्झितोऽत्र को विशयः ॥ ९६७ ॥

 हे जगज्जननि! गोपालकः त्रिदिवरक्षक इन्द्रः अन्यो दिक्पालो भूपालो वाक्पतिर्वा भवन्नपि पुमान् त्वया अपाकृतः तिरस्कृतश्चेत् चातुर्वर्ण्येन ब्राह्मणादिवर्णचतुष्टयेन, स्वार्थे ष्यञ् । उज्झितः बहिष्कृतः गोलकः ‘मृते भर्तरि गोलकः’ इत्युक्तलक्षणो वैधवेयः भविता उत्पत्स्यते । अत्र को विशयस्संदेहः न कोऽपीत्यर्थः। पक्षे गोपालकशब्द अपाकृतः पावर्णरहितः कृतश्चेत् चत्वारो वर्णाः यस्य सः चतुर्वर्णः तस्य भावः चातुर्वर्ण्यं तेन उज्झितः गोलक एव भविता । गोपालकशब्दो वर्णचतुष्टयात्मकः पावर्णोत्सारणे त्रिवर्ण एव भवितेर्त्यः । अत्राप्रस्तुतगोपालकदुरवस्थाप्राप्तिरूपकार्यात्संभावनाविषयात्तत्कारणभूतजगज्जननीनिग्रहनिरङ्कुशप्रभावः प्रस्तुतः प्रतीयते ॥

 यथावा--

 काञ्चनलक्ष्मीमञ्चन्त्यकिञ्चनानां घनानि भवनानि । किमिदं स्यात्फणिशैलं याता एते दिदृक्षमाणास्तम् ॥ ९६८ ॥

 अत्र फणिशैलं प्रति गतानामकिञ्चनानां भवनेषु कुचेल-