पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२१३

पुटमेतत् सुपुष्टितम्
203
अप्रस्तुतप्रशंसासरः (२८)

शासनं नाकरिष्यद्यदि सनयोपि नीतिमानमपि इतः राघवात् तत्सौहार्दादिति यावत् । ततः राज्यादपि विभ्रष्टस्सन् ननयः नीतिविधुर एव अभविष्यत् । नशब्देन समासः । अनीतिमानित्येव प्रासैत्स्यदिति भावः । यद्वा इतस्ततः अस्मादमुष्माच्च लोकात् विभ्रष्ट इत्यर्थः । ‘कृतं ह्यप्रतिकुर्वंस्तु भ्रश्येल्लोकद्वयादपि' इति स्मरणात् । अथवा अर्थधर्माभ्यां विभ्रष्ट इयर्थः । 'धर्मलोपो महांस्तात कृते ह्यप्रतिकुर्वतः । अथलोपश्च मित्रस्य' इति श्रीरामायणोक्तेः । यद्वा इतस्ततो विभ्रष्ट इति लोकोक्तिः। अयुक्ताप्रशस्तप्रदेशेषु पतित इत्यर्थः । अभविष्यत् । हीत्यवधारणे । अपिर्भिन्नक्रमः गर्हायाम् । पक्षे सनयः नकाराभ्यां यकारेण च युक्तः इनतनयः इनतनयशब्दः इतः इवर्णात् ततः तवर्णाच्च विभ्रष्टः विश्लिष्टश्चेत् ननय इति निष्पद्येतेत्यर्थः । अत्र महाकुलीनोऽपि यदि भगवच्छासनमतिवर्तेत तदा लोकद्वयादपि भ्रश्येदिति सामान्ये कथनीये विशेषः कथितः । प्रदर्शितेषूदाहरणेषु प्रायेण श्लेषसंकीर्णताऽस्त्येव । अलंकारान्तरसंकीर्णता तु तत्रतत्र यथासंभवं बुद्धिमद्भिरूहनीया ॥

 यथावा--

 प्राप्य नियन्तारं त्वामतिद्युपतिरर्जुनः कुरुरणाग्रे । अपराजित एवाभूदतिद्युतिश्चापि कंसविध्वंसिन् ॥ ९७३ ॥

 हे कंसविध्वंसिन्! अर्जुनः त्वां नियन्तारं सारथिं नेतारं च प्राप्य द्युपतिमिन्द्रमतिक्रान्तोऽतिद्युपतिः कुरुरणाग्रे अपराजितः परैरनभिभूत एव भवन् अत एव अतिद्युतिः अतितेजस्वी चाप्यभूत् । पक्षे अतिद्युपतिशब्दः पेन पकारेण राजितः न भ-