पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२१४

पुटमेतत् सुपुष्टितम्
204
अलंकारमणिहारे

वतीत्यपराजित एव सन् अतिद्युतिरिति निष्पन्न इत्यर्थः । अत्र भगवन्तं नियन्तारं प्राप्तो जनस्सर्वत्र विजयी द्युतिमांश्च भवतीति सामान्ये प्रस्तुतेऽभिधेये अप्रस्तुतविशेषाभिधानम् ॥

 यथावा--

 शरकुलकमलतरणे भूरितरे पारिजातहरणरणे । बलरिपुतुलितं भवता कुलिशं चालितमतानि कुशमेव ॥ ९७४ ॥

 शूरो नाम यदुवंश्यो राजा तस्य कुलमेव कमलं तस्य तरणिः द्युमणिः तस्य संबुद्धिः हे भगवन्! इदं च संबोधनं महातेजस्विताद्योतनाय । भूरितरे पारिजातहरणरणे । बलरिपुणा मघवता तुलितं उद्धृतं कुलिशं वज्रं चालितं अयथावस्थितं कृतं निर्वीर्यं कृतमित्यर्थः । 'कम्पने चलि.' इति नियमात् शीलं चालयतीत्यादाविव मित्त्वाभावात्तन्निमित्तकह्रस्वाभावः । कुशमेव अतानि तृणप्रायमेव व्यधायीत्यर्थः । पक्षे च अलितं इतिच्छेदः । अविद्यमानो लिः लिवर्णः यस्मिंस्तत् अलि अलि कृतं अलितं अलिशब्दात्तत्करोतीति ण्यन्तात्कर्मणि क्तः । ‘निष्ठायां सेटि’ इति णिलोपः । यद्वा लिः संजातोऽस्य लितं न लितं अलितं लिवर्णविधुरमित्यर्थः । इतचि 'यस्येति च' इतीकारलोपः । कुशमेव अतानि । कुलिशपदं लिवर्णापसारणेन कुशमिति निष्पादितमित्यर्थः । अत्र भगवता अखिलप्रत्यनीकससंरम्भोद्यतानि महान्त्यप्यस्त्राणि तृणवन्निस्सारीक्रियन्त इति सामान्येऽभिधेये इन्द्रोद्यतदम्भोळिदम्भोन्नतिसंभेदनरूपविशेषोऽभिहितः ॥