पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२१९

पुटमेतत् सुपुष्टितम्
209
अप्रस्तुतप्रशंसासरः (२९)

संख्ये युद्धे अग्रसरः । पक्षे-- संख्यायां महागिरिगणनायां अग्रसरः अग्रणीः । शूरः वीरः शोभनं च तत् प्रथनं च सुप्रथनं श्लाघ्यं युद्धं तस्य श्रियः जयलक्ष्म्याः निवासतां स्थानताम् । पक्षे-- शोभनं प्रथनं प्रख्यातिः यस्य स तथोक्तः । श्रीनिवासः भगवान् यस्मिन् तस्य भावं अयते इत्यर्थः ॥

 यथावा--

 पद्म कृती त्वं नूनं हरिप्रसादात्सदा मुखविकासम् । अभ्येषि रसं लब्ध्वाऽऽमोदमनन्तं च विन्दसे यस्मात् ॥ ९८३ ॥

 हे पद्म! ‘वा पुंसि पद्मम्’ इत्यनुशासनात्पुल्लिङ्गता । त्वं कृती धन्यः । यस्मात् हरेः भानोः भगवतश्च प्रसादात् प्रकाशात् अनुग्रहाच्च सदा मुखविकासं अभ्येषि । रसं मरन्दं लब्ध्वा अनन्तं अमितं आमोदं सौरभं विन्दसे । अन्यत्र ‘रसो वै रसः, रस्ँ ह्येवायं लब्ध्वाऽऽनन्दी भवति’ इति श्रुत्युक्तरीत्या आनन्दरूपं परं ब्रह्म प्राप्य शतगुणितोत्तरक्रमेणाभ्यस्यमानमानन्दं विन्दस इत्यर्थः । अत्रापि श्लिष्टैर्विशेषणैः पद्मस्याप्रकृतस्य स्तवः प्रकृते ब्रह्मविदि तत्सरूपे पर्यवस्यति । पद्मेति विशेष्यमश्लिष्टम् ॥

 यथावा--

 माकन्द त्वं धन्यो माधवसक्त्यैषि सुमत आमोदभरम् । अतिरागिणमपि पल्लवमचिराद्रचयसि च साधु हरितत्त्वविदम् ॥ ९८४ ॥

 ALANKARA II
27