पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२२२

पुटमेतत् सुपुष्टितम्
212
अलंकारमणिहारे

 अत्राप्रस्तुतेन कमलकोशान्तर्निरुद्धभ्रमराश्वासनवृत्तान्तेन तत्सरूपः स्वल्पमेव कालं संसारबन्धमिमं सहस्व भगवत्कटाक्षास्त्वयि प्रत्यासन्नप्रसरा इति प्रस्तुतो भगवच्चरणारविन्दप्रपन्नाश्वासनवृत्तान्तः प्रतीयते ॥

 यथावा--

 रवितापशोषितापं पल्वलमभ्येत्य खल्वलं तपसि । मीन त्वं दीनत्वं विमुञ्च पुरतोऽभ्युदञ्चति घनाळी ॥ ९८७ ॥

 अत्राप्रस्तुतमीनसमाश्वासनवृत्तान्तेनातिमात्रदुर्गतिदूषितकुटुम्बमध्यनिवासपरितप्तं दीनं प्रति मा शुचः प्रत्यासन्ना तव श्रीरिति समाश्वासनरूपोऽर्थोऽवगम्यते ॥

 यथावा--

 मर्कटक वयसि सततं तन्तुभिरहमपि च तन्तुवाय इति । देवार्हांशुकवातुः का वा हानिस्ततः कुविन्दस्य ॥ ९८८ ॥

 मर्कटकः ऊर्णानाभो नाम क्रिमिः ‘लूता स्त्री तन्तुवायोर्णानाभमर्कटकास्समाः' इत्यमरः । वयसि वस्त्रं करोषि ‘वेञ् तन्तुसन्ताने’ इति हि धातुः । देवार्हांशुकस्य वाता वयनकर्ता तस्य, वेञस्तृच् । शेषषष्ठ्यास्समासः । अत्राप्रस्तुतस्योर्णानाभेर्निन्दनं कुविन्दस्य प्रशंसनं च निन्दनीयत्वेन प्रस्तुते तत्तुल्ये अक्षोदक्षमासंबद्धदुर्विषयकतिपयपद्यघटयितरि कुकवौ प्रशंसनीयत्वेन प्रस्तुते भगवत्कल्याणगुणरमणीयभव्यकाव्यनिर्माणा-