पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२२४

पुटमेतत् सुपुष्टितम्
214
अलंकारमणिहारे

कुलजन्मानोऽपि तत्त्वज्ञानविरक्तिभक्त्यादिशुभगुणसमृद्धिमन्तश्चेतनाः श्री श्रीनिवासस्य भगवतः कृपाभाजनतया मणिवरवन्नित्यहृद्या भवन्तीति तत्तुल्यः प्रस्तुतवृत्तान्तः प्रत्याय्यते ॥

 यथावा--

 माकन्दमुखास्तरवः स्तोकं ददते फलं किमेतैर्नः । मन्दार महोदार त्वं दाता नूनमीप्सितादधिकम् ॥ ९९१ ॥

 अत्राप्रस्तुतानां माकन्दादितरूणामनादरः मन्दारस्य प्रशंसा च अनादरणीयतया प्रस्तुतेषु देवतान्तरेषु प्रशंसनीयतया प्रस्तुते तत्सरूपे भगवति श्रीनिवासे च पर्यवस्यति । अत्राद्येषु त्रिषूदाहरणेषु भ्रमरमीनतन्तुवायक्रिमीणां तिरश्चां अनन्तरेषु त्रिषूदाहरणेषु प्रस्तरगन्धद्रव्यमन्दाराणामचेतनानां च संबोधनानर्हतया प्रतीयमानाध्यारोपेणैव वाच्यार्थप्रतीतेस्तत्तादात्म्यमपेक्ष्यते ॥

 यथावा--

 मधुकर शृणु मम वचनं मा गाः खेदं त्वमशुचिवर्ण इति । श्रीश्रीनिवासपद्माश्रयणेनोज्जीवितो यतोऽसि कृती ॥ ९९२ ॥

 अशुचिवर्णः नीलवर्णः अशुद्धवर्णश्शूद्रश्च । श्रीश्रियः श्रीमहालक्ष्म्याः निवासभूतं यत्पदं कमलं तस्याश्रयणेन श्रीयुक्तः यः श्रीनिवासः भगवान् पद्मा लक्ष्मीश्च तयोः आश्रयणेन च । अत्र मधुकरस्य खेदनिवारणकारणतया विशेषणमुपात्तं तच्च