पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२२९

पुटमेतत् सुपुष्टितम्
219
अप्रस्तुतप्रशंसासरः (२९)

एव, कुसुमसमृद्धिमत्ताया भजनानुगुणत्वात् । तदंशे क्षुद्रदेवतातादात्म्यमपेक्ष्यं, क्षुद्रदेवतायां च केतकीतादात्म्यं, तापसाश्रितत्वस्य तत्त्यागाननुगुणत्वात् । यावता तद्भजनानुगुणत्वात् । एवमन्योन्यतादात्म्यावलम्बनेन वाक्यार्थस्सिद्ध्यतीति ध्येयम् ॥

 अयं तृतीयः प्रकारस्सादृश्यमूलाप्रस्तुतप्रशंसाया रसगङ्गाधरानुरोधेन दर्शितः । काव्यप्रदीपादौ तु इयं सारुप्यनिबन्धनाप्रस्तुतप्रशंसा त्रिधा । क्वचिद्वाच्यार्थे प्रतीयमानार्थानध्यारोपमात्रेण । क्वचित्प्रतीयमानाध्यारोपेण । क्वचित्तु अंशभेदेन तदध्यारोपानध्यारोपाभ्यामिति त्रैविध्यमभिहितम् । तत्राद्ये प्रकारद्वये न वैलक्षण्यं, तृतीये तु प्रकारे किंचिदस्ति वैलक्षण्यम् । तत्रेदमुदाहरणम् ॥

 प्रथममनिद्रा स्वपदे सा द्राक्षा क्षान्तिमत्त्वमुपयाता । प्राप्ताऽथ कृष्णरूपं फले रसघना च कियदिदं भाग्यम् ॥ ९९८ ॥

 सा प्रसिद्धा द्राक्षा मृद्वीका प्रथमं आदौ स्वपदे स्ववाचकशब्दे अनिद्रा निर्गतो द्रा इति वर्णो यस्यास्सा न भवतीत्यनिद्रा ‘निवातपद्मस्तिमितेन' इत्यादाविव निशब्देन समासः । आदौ द्रावर्णसहितेत्यर्थः । अर्थगतस्य स्त्रीत्वस्य शब्दे आरोपः । क्षा इत्याकारकवर्णः अन्तिमो यस्य तदिति सामान्ये नपुंसकम् । तस्य भावः क्षान्तिमत्त्वं 'अनचि च' इति तकारस्य द्वित्वम् । उपयाता क्षाकारान्वितपश्चार्धेत्यर्थः । फले अथ कार्त्स्न्येन कृष्णरूपं असितवर्णतां प्राप्ता फलपरिणामदशायां तथाविधत्वात्तस्याः । रसघना रससान्द्रा च भवति । पक्षे स्व-