पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२३०

पुटमेतत् सुपुष्टितम्
220
अलंकारमणिहारे

पदे स्वत्राणे स्वव्यवसये च ‘पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः । स्वोज्जीवने तदर्थमुपायानुष्ठाने चेति भावः । अनिद्रा अप्रमत्ता अत एव क्षान्तिमतो भावः क्षान्तिमत्त्वं ‘शान्तो दान्त उपरतस्तितिक्षुः’ इत्युक्तरीत्या तितिक्षुत्वम् । इदमुपलक्षणं समाहितत्वादेः । अनेनोपायानुष्ठानपूर्तिरुक्ता । अथ फले फलदशायां कृष्णरूपं भगवत्सारूप्यं प्राप्ता उपायानुष्ठानानुरूपं फलं प्राप्तवतीत्यर्थः । रसघना परिपूर्णब्रह्मानुभवानन्दमेदुरा च भवति । अस्याः भाग्यं इदं भाग्यं कियत् वचसामगोचरमिति भावः । अत्र द्राक्षायां प्रथमं स्वपदे अनिद्रात्वं क्षान्तिमत्त्वं च प्रशंसाहेतुत्वेन वाच्ये । न च ते तद्धेतुभूते तदंशे प्रतीयमानब्रह्मविद्व्यक्त्यध्यारोपापेक्षा । फले कृष्णरूपावाप्तिः रसघनात्वं च प्रशंसाहेतुरेवेति तदंशे नाध्यारोपः ॥

 यथावा--

 आपातमधुरनीरसदुर्ग्रहकर्कशफलेन तालेन । उद्विजमानेन मनाक्स्पर्शनतः कीर किमिव साधयसे ॥ ९९९ ॥

 कीर! हे शुक! आपाततः आमुखतः मधुराणि अन्ततो नीरसानि अथापि दुर्ग्रहाणि असुलभानि गृहीतत्वेऽपि कर्कशानि कठोराणि अनुभवदशायां क्लेशापादकानि च फलानि यस्मिन् तेन स्पर्शनतः मारुतात् मनाक् ईषदेव उद्विजमानेन चलता कर्कशपत्रत्वादिति भावः । पक्षे मनाक्स्पर्शनतः अत्यल्पवितरणादपि उद्विजमानेन बिभ्यता अतिमात्रलुब्धेनेत्यर्थः । ‘ओ विजी भयचलनयोः' इति तौदादिकाद्धातोश्शानच् । प्रायेणायं धातु-