पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२३१

पुटमेतत् सुपुष्टितम्
221
अप्रस्तुतप्रशंसासरः (२९)

रुत्पूर्वः । तालेन तालतरुणा किंनु साधयसे न किमप्यनेन तव प्रयोजनं सिद्ध्येदिति भावः । अत्राप्रस्तुतश्शुकं प्रति हितोपदेशो भगवदनादरेण क्षुद्रदेवानां लुब्धनृपालानां वा सेवनाय प्रवर्तमाने कस्मिंश्चित्पुरुषे विषये पर्यवस्यति । तत्र तालतरोरापातमधुरत्वादिविशिष्टफलदातृत्वमुपालम्भहेतुरेवेति तदंशे द्योत्यमानक्षुद्रदेवतालुब्धनृपालाध्यारोपो नावश्यकः । मनाक्स्पर्शनोद्विजमानत्वे तु तदध्यारोप आवश्यकः । मारुताद्यत्किञ्चिच्चलनस्योपालम्भाहेतुत्वादित्यंशे अध्यारोपः अंशे तदभावश्च ॥

 यथावा--

 अतिवृत्तोऽपि सरन्ध्रोप्यग्रसरो यदसि परगुणग्रथने । श्रीनायकभाक्तदसावसि मणिगण हृद्य एव सुदृशां त्वम् ॥ १००० ॥

 हे मणिगण! त्वं अतिवृत्तोऽपि अतिवर्तुलोऽपि सरन्ध्रोऽपि सुषिरोऽपि यत् यस्मात् श्रीयुक्तो नायकः श्रीनायकः हारमध्यमणिः तं भजतीति तथोक्तः । ‘नायको नेतरि श्रेष्ठे हारः मध्यमणावपि' इति मेदिनी । परः श्रेष्ठः यो गुणः तन्तुस्वर्णमय इति भावः । तस्य ग्रथने संदर्भे तत्स्यूतत्वे सतीत्यर्थः । अग्रः श्रेष्ठः सरः हारः भवसि । तत् तस्मादेव असौ त्वं सुदृशां ललनानां हृद्यः वक्षस्स्थः हृदयशब्दाद्भवार्थे ‘शरीरावयवाच्च' इति यत् । असि । वर्तुलत्वेऽपि सुषिरत्वेऽपि नायकमणिघटित उत्तमतन्तुस्यूत एव हारतामापन्नो मृगाक्षीणां हृदयमधिवससि नान्यथेति भावः । पक्षे— अतिक्रान्तो वृत्तं अतिवृत्तोऽपि दुराचारोऽपि अत एव सरन्ध्रोऽपि स