पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२३३

पुटमेतत् सुपुष्टितम्
223
अप्रस्तुतप्रशंसासरः (२९)

स्वनायिकायामनुरक्ते पार्श्ववर्तिनि नायिकासख्याः कस्याश्चिदुक्तौ--

मलिनेऽपि रागपूर्णां विकसितवदनामनल्पजल्पेऽपि । त्वयि चपलेऽपि च सरसां भ्रमर कथं वा सरोजिनीं त्यजसि ॥

इति पद्ये अथात्र कथमप्रस्तुतप्रशंसा ? वाच्यार्थस्य प्रस्तुतत्वेन तल्लक्षणानालीढत्वादिति चेन्न, अप्रस्तुतशब्देन हि मुख्यतात्पर्यविषयीभूतार्थातिरिक्तार्थे विवक्षितः । स च क्वचिदत्यन्ताप्रस्तुतः क्वचित्प्रस्तुतश्चेति न कोऽपि दोषः । न च ध्वनिमात्रस्याप्रस्तुतप्रशंसात्वापत्तिरिति वाच्यम् । अत एव लक्षणे सादृश्याद्यन्यतमप्रकारेणेति विशेषणमुपात्तमिति विभावनीयम् । एतेन द्वयोः प्रस्तुतत्वे प्रस्तुताङ्कुरनामाऽन्योऽलंकार इति कुवलयानन्दाद्युक्तमुपेक्षणीयम् । किंचिद्वैलक्षण्यमात्रेणैवालंकारान्तरताकल्पने वाग्भङ्गीनामानन्त्यादलंकारानन्त्यप्रसङ्ग इत्यसकृदावेदितत्वात् ॥

 इदं तु बोध्यम्-- अत्यन्ताप्रस्तुतस्य वाच्यतायां तस्मिन्नपर्यवसितयाऽभिधया प्रतीयमानार्थस्य बलादाकृष्टत्वेन ध्वनित्वं न निर्बाधम् । द्वयोः प्रस्तुतत्वे तु ध्वनित्वं निर्विवादमेव । एवं सादृश्यमूलप्रकारे द्वैतम् । कार्यकारणभावसामान्यविशेषभावमूलाश्चत्वारः प्रकारा गुणीभूतव्यङ्ग्यस्यैव भेदाः । अभिधादिस्पर्शलेशशून्यस्य केवलागूरणमात्रस्य ध्वनिप्रयोजकत्वात् ॥

 अथ

आपेदिरेऽम्बरभुवं परितः पतङ्गा-
भृङ्गा रसालकुसुमानि समाश्रयन्ते ।
संकोचमञ्चति सरस्त्वयि दीनदीनो
मीनो नु हन्त कतमां गतिमभ्युपैतु ॥