पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२३५

पुटमेतत् सुपुष्टितम्
225
अप्रस्तुतप्रशंसासरः (२९)

वाच्यत्वे प्रस्तुतस्य गम्यत्वे सर्वथा अप्रस्तुतप्रशंसेति निर्णयः' इत्यवादीत् ॥

 एतन्मते तु 'पुरा यत्र स्रोतः' इत्यादौ प्रस्तुतस्यैव वाच्यत्वेन अप्रस्तुतस्य गम्यत्वेन च समासोक्तिरेवेत्यलं पल्लवितेन ।

 किंच 'वैधर्म्येणापीयं दृश्यते’ इत्युक्त्वा ‘धन्याः खलु वने वाताः' इत्युदाहार्षीत् । तदनुरोधेन इदमुदाहरणम्--

 ते मान्यास्ते धन्याः येऽनन्याः पन्नगाद्रिमूर्धन्यान् । भूम्नः कांश्चिदवन्यां तरवोऽप्यर्चन्ति निजसुमैर्धन्याः ॥ १००१ ॥

 अत्र ते मान्यास्ते धन्या इत्याद्यप्रस्तुतात् श्रीनिवासमनर्चन्तो मानवजन्मभाजोपि चेतना अमान्या अधन्या इति वैधर्म्येण प्रतीयते । मम्मटादयस्तु 'धन्याः खलु वने वाताः' इत्यत्र वातस्तुत्या स्वनिन्दाप्रतीतेः व्याजस्तुतिरेव युक्तेत्याहुः । तदा अस्मदुदाहृतमिदमपि पद्यं व्याजस्तुतेरेवोदाहरणतामर्हतीति ध्येयम् ॥

इत्यलंकारमणिहारे अप्रस्तुतप्रशंसासरः एकोनत्रिंशः


 ALANKARA II
29