पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२३७

पुटमेतत् सुपुष्टितम्
227
प्रस्तुताङ्कुरसरः (३०)

वमन्यसे त्वय्यपि वाऽसौ कियन्तमवधिमनुरज्येदिति तां प्रत्युपालम्भः प्रस्तुत एव द्योत्यते । अत्र प्रतीयमानार्थे घनमित्यस्य विपरीतलक्षणया अगभीरमित्यर्थः । उद्बर्हिबर्हमिति वाच्यार्थपक्षे उन्नीतानि विकसितानि बर्हिबर्हाणि येन स इति । प्रतीयमानपक्षे उत्तंसितमयूरपिञ्छमित्यर्थः । न किमपि वेत्सीत्येतत् वाच्यगिरितटीपक्षे घनच्छन्नत्वेनौपचारिकम् । प्रतीयमाननायिकापक्षे तु आनन्दपारवश्येन न किमपि जानासीत्यभिप्रायकम् । अतिवेला चपला विद्युत् यस्मन्निति वाच्यपक्षे । व्यङ्ग्ये त्वतिचञ्चलप्रकृतिरिति ॥

 यथावा--

 उच्चैर्विभवस्थानं त्वत्पादसमाश्रयो हि शाखिगणः । सानुगता भजति श्रीस्त्वामस्त्यहिशैल को महांस्त्वत्तः ॥ १००३ ॥

 हे अहिशैल! तव पादाः प्रत्यन्तगिरयः पादौ चरणौ च आश्रयो यस्य सः । शाखिनां तरूणां शाखाध्येतॄणां विप्राणां च गणः उच्चैः वीनां पक्षिणां भवस्थानं जन्मभूः तत्र कृतनीडत्वात्तस्येति भावः । उन्नतस्य विभवस्य स्थानं च भवति । सानूनि प्रस्थान् गता प्राप्ता श्रीः शोभा । अन्यत्र सा जगन्मातृत्वादिना प्रसिद्धा श्रीः लक्ष्मीः अनुगता ‘छायेवानुगता तव’ इत्युक्तरीत्या अनुव्रता सती भजति । त्वत्तः एवंविधात् भवतोऽपि को महान् पृथुलः । पक्षे महाविभूतेः श्रियः पत्युरन्यः को महनीय इत्यर्थः । अत्र प्रस्तुतेनाहिशैलवृत्तान्तेन प्रस्तुतश्रीनिवासवृत्तान्त एव द्योत्यते । वाच्यव्यङ्ग्ययोरुभयोरपि सेव-