पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२४१

पुटमेतत् सुपुष्टितम्
231
प्रस्तुताङ्कुरसरः (३०)

मप्राधान्यरूपगुणीभूतव्यङ्ग्यतैव युक्ता । किंच वाच्यस्याप्राधान्ये व्यङ्ग्यस्य प्राधान्यविवक्षायामेव ध्वनिरिति हि सिद्धान्तः । न चेह व्यङ्ग्यस्य प्राधान्यमस्ति तथात्वे तस्याविवक्षितत्वापत्त्या अस्य विवक्षितान्यपरवाच्यध्वन्यन्तर्भावोक्त्ययोगादिति । अत उक्तोदाहरणयोरन्यापदेशध्वनेरयुक्तत्वात्प्रस्तुताङ्कुर एवोचित इति । तृतीयचतुर्थपञ्चमोदाहरणेषु तु अलंकारतायां न कस्यापि विप्रतिपत्तिः । उक्तं हि ध्वनिकारेण--

शब्दार्थशक्त्याऽऽक्षिप्तोऽपि व्यङ्ग्योऽर्थः कविना पुनः ।
यत्राविक्रियते स्वोक्त्या साऽन्यैवालंकृतिर्ध्वनेः ॥

इति । एतानि सादृश्यनिबन्धनान्युदाहरणानि । संबन्धान्तरनिबन्धनान्यपि कथंचिद्वाच्यव्यङ्ग्ययोः प्रस्तुतत्वावलम्बनेनोदाहार्याणि

 तत्र दिङ्मात्रमुदाह्रियते--

 एकेन मुखेन त्वां स्तुवीत यः कविरुदारधीर्भगवन् । चत्वारि पञ्च षड्वा यात्वा वदनानि पूज्यते स सुरैः ॥ १००७ ॥

 अत्र विधित्वशिवत्वस्कन्दत्वानीव तदवयवतया उदाहृतवाक्यवाच्यानि चत्वारि पञ्च षडाननान्यपि श्रीश्रीनिवासस्तुतिमहिमप्रयुक्ततया वर्णनीयानीति तन्मुखेन कृत्स्नं विधित्वं शिवत्वं स्कन्दत्वं च गम्यत इत्यवयवावयविभावनिबन्धनोऽयं प्रस्तुताङ्कुरः ॥

 यथावा--

 मुखलावण्यसुधाम्बुधिमध्यसमुद्बुद्धबुद्बुदनिभायाः । भायासुस्ता मुक्ता भगवद्वदने ललाटिकासक्ताः ॥ १००८ ॥