पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२४५

पुटमेतत् सुपुष्टितम्
235
पर्यायोक्तसरः (३१)

 पाराशर्यो वेदव्यासः । तत्सूत्रस्य भाष्यकारो भगवान् रामानुजाचार्यः, पाणिनिसूत्रभाष्यकारो भगवान्पतञ्जलिश्च शेषावतारावित्यागमः । अत्र श्रीनिवासविहाराचलस्य शेषत्वं व्यङ्ग्यं तदेव भङ्ग्यन्तरेणोक्तम् । शेषत्वप्रकारेण व्यङ्ग्यत्वम् । पाराशर्यपाणिनिसूत्रभाष्यकारत्वेन वाच्यत्वं भगवद्विहारगिरेरिति व्यङ्ग्यापेक्षया वाच्यस्यैव चारुतरत्वमिति ध्येयम् । न च व्यङ्ग्यस्यैवाभिधेयत्वं विरुद्धमिति वाच्यम् । न हि वयं येन प्रकारेण शेषत्वाकारेण व्यङ्ग्यता तेनाकारेणाभिधेयतां बूमः । किंतु पाराशर्यपाणिनिसूत्रभाष्यकारत्वरूपेणेति न विरोधः ॥

 यथावा--

 पवनं योऽश्नाति सदा तमपि च योऽश्नाति तावुभौ यस्य । शय्यावाहनभावं श्रयतो जगदशुभमपनयतु स पुमान् ॥ १०१४ ॥

 तमपि च योऽश्नातीति तज्जातीयभुजगाशितृत्वमभिसंधायोक्तम् । अत्र व्यङ्ग्यादनन्तगरुडत्वाकारादपि पवनं योऽश्नातीत्यादिना चारुतरेण रूपेण भगवतश्शय्यावाहनयोरभिधानम् । यद्वा भगवन् स्वसाधारणाकारेण गम्यः पवनाशनशयनत्वादिना रूपान्तरेण स एवाभिहितः ॥

 यथावा--

 वाहनकेतनदक्षिणचक्षुस्स्थानान्यधीयमानानि । यस्य त्रीन् वर्णानपि पवित्रयन्त्येष मे परित्राता ॥

 अत्र भगवतो वाहनकेतनयोर्यद्वैनतेयरूपत्वं दक्षिणाक्षिनिवासस्थानयोर्यदादित्यरूपत्वं च व्यङ्ग्यं ततोऽपि चारुतरेणाकारे-