पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२४७

पुटमेतत् सुपुष्टितम्
237
पर्यायोक्तसरः (३१)

त्वमादायेति वाच्यं, उक्तविधपरशुधरजेतृत्वरूपव्यङ्ग्यस्य वाच्यसिद्ध्यङ्गत्वेन तेनापि विवक्षितं व्यङ्ग्यं प्रधानभूतं दाशरथित्वमिति तदादायैव तद्वर्णनस्य युक्तत्वात् । अस्यैव पद्यस्यान्ते स विजयतां जगतीत्यत्र जगतीति पदमपनीय राम इति पाठे ‘राहुस्त्रीकुचनैष्फल्यकारिणे हरये नमः’ इत्यत्र राहुशिरश्छेत्तृत्वमिव कार्तवीर्यभुजच्छेत्तृपरशुधरजेतृत्वमेव विवक्षितं व्यङ्ग्यमिति युक्तं तदादायैव पर्यायोक्तमिति ध्येयम् । अत एव ‘नमस्तस्मै कृतौ येन मुधा राहुवधूकुचौ’ इत्यत्र 'अत्र भगवान् वासुदेवस्स्वासाधारणरूपेण गम्यो राहुवधूकुचवैयर्थ्यकारित्वेन रूपान्तरेणाभिहितः' इति कुवलयानन्दोक्तं संगच्छते । यत्तु तत्र भगवद्रूपेणावगमनं विशेषणमर्यादालभ्यत्वेनासुन्दरं पर्यायोक्तस्य विषय इति, तदविचारितरमणीयम् । न हि पर्यायोक्ते व्यङ्ग्यसौन्दर्यकृतो विच्छित्तिविशेषः । येनासुन्दरता स्यात् । किंतु भङ्ग्यन्तराभिधानकृत एव । व्यङ्ग्यं तु भङ्ग्यन्तराभिधानतोऽसुन्दरमेव प्रायेण दृश्यते । यथा इहागन्तव्यमिति विवक्षिते व्यङ्ग्ये अयं देशोऽलंकरणीयः साफल्यं नेय इत्यादौ । तस्मात्तदसुन्दरत्वोद्भावनमकिंचित्करमेवेत्यलं बहुना । एवं 'पवनं योऽश्नाति' इति प्रागुपदर्शितेषूदाहरणेष्वपि द्रष्टव्यम् ॥

 यथावा--

 यस्यैकमक्षि भुवनं दिवा दिविष्ठं विभासयत्यखिलम् । अन्यत्तु नक्तमद्भुतमनिशं मम शं तनोतु तत्तेजः ॥ १०१८ ॥

 अत्र भगवतस्सूर्यचन्द्रलोचनत्वं गम्यं प्रकारान्तरेण सुन्दरतरेणाभिहितम् ॥