पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२४९

पुटमेतत् सुपुष्टितम्
239
पर्यायोक्तसरः (३१)

 यस्याः द्युतिं जलदसरसां तोयदश्यामलामिति यावत् । आहुः श्रुत्यादय इति शेषः । सा देवता मां अवतात् । यस्याः रूपं वर्णं ‘रूपं स्वभावे शुक्लादौ’ इति रत्नमाला । विपरीततदभिधेयं व्यत्यस्तेन जलदसरसामितिशब्देन वाच्यं सारसदलजमित्यर्थः । पद्मदलजन्यं तत्तुल्यमिति यावत् ‘पद्मवर्णाम्' इति श्रुतेः । अत एव पदार्थवृत्तिनिदर्शना । सा देवता च मां अवतु । अत्र भगवान् श्रीनिवासः भगवती श्रीश्च व्यङ्ग्यौ जलदसरसदीप्तित्वेन सारसदलजरूपत्वेन च भङ्ग्यन्तरेणाभिहितौ ॥

 यथावा--

 आद्यं भूतमनन्तरमपि पद्भ्यां वदनतस्तृतीयमभूत् । प्राणात्तुर्यं नाभ्याः पञ्चममपि यस्य भूतकृत्सोऽव्यात् ॥ १०२२ ॥

 अत्र पृथिव्यप्तेजोवाय्वाकाशानि व्यङ्ग्यानि प्रकारान्तरेणाभिहितानि । गङ्गाऽत्र द्वितीयभूतत्वेन विवक्षिता । अत्र ‘पद्भ्यां भूमिः । विष्णुपादोद्भवा गङ्गा । मुखादिन्द्रश्चाग्निश्च । प्राणाद्वायुरजायत । नाभ्या आसीदन्तरिक्षम्' । इति प्रमाणान्यनुसन्धेयानि । इदं च वक्ष्यमाणरत्नावळीकाव्यलिङ्गसंकीर्णम् ॥

 यथावा--

 दीव्यतु कोऽपि स देवो भूषां योषां च यस्य जलधिरदात् । स्वयमेव यत्प्रियायास्सारसनमभूत्स एष वसनं वा ॥ १०२३ ॥

 स एषः पूर्वोक्तो जलधिरित्यर्थः । स्वयमेव यस्य देवस्य प्रियायाः वल्लभायाः भुव इति भावः 'विष्णुपत्नीं महीं देवीं