पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२५३

पुटमेतत् सुपुष्टितम्
243
व्याजस्तुतिसरः (३२)

 अत्र लुलितालकादिसमीकरणापदेशेन पीताम्बरस्याम्बुधिसुतावदनाम्बुजचुम्बनरूपस्वेष्टसाधनमेव दर्शितम् ॥

 द्वितीयं यथा--

 कुसुमापचायलोभाद्विषमां कुञ्जस्थलीं प्रयाति रमा । सह याहि त्वं श्रान्ताऽस्म्यहमित्यहिमहिभृदशिमाह सखी ॥ १०३० ॥

 अपचायेत्यत्र ‘हस्तादाने चेरस्तेये’ इति घञ् । महिशब्दो हृस्वान्तोऽप्यस्ति, ‘वीचिः पङ्किर्महिः केळिरित्याद्या हृस्वदीर्घयोः' इति वाचस्पत्यनुशासनात् । अत्र कुसुमापचायव्यग्रतया कुञ्जस्थलीं प्रविष्टायाः श्रियस्साहायकविधानप्रेरणव्याजेन भगवतस्तत्संभोगाभीप्सितं श्रान्तताव्याजेन पृथगवस्थितया सख्या साधितमिति परेष्टसाधनं निबद्धम् ॥

इत्यलंकारमणिहारे पर्यायोक्तसर एकत्रिंशः.


अथ व्याजस्तुतिसरः.


स्तुत्याभिव्यज्यते निन्दा निन्दया वा स्तुतिर्यदि ।
तत्र व्याजस्तुतिं नाम प्राज्ञाः प्राहुरलंकृतिम् ॥

 यत्र स्तुतिरभिधीयमानाऽपि प्रमाणान्तरेण बाधितस्वरूपा निन्दायां पर्यवस्यति तत्रासत्यत्वाद्व्याजरूपा स्तुतिरित्यनुगमेन तावदेका व्याजस्तुतिः । यत्रापि निन्दा शब्देन प्रतिपाद्यमाना पूर्ववद्बाधितरूपा स्तुतौ पर्यवस्यति सा द्वितीया व्याजस्तुतिः ।