पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२६

पुटमेतत् सुपुष्टितम्
16
अलंकारमणिहारे

 अत्र भगवन्नन्दकयोः प्रकृतयोश्श्लेषः । भगवत्पक्षे-- सन्नन्दकं असितोज्ज्वलं ओजः श्रीमत् सरूपधेयाङ्गं इति पञ्चपदानि । श्रीमत् लक्ष्मीनित्ययोगवत् । रूपमेव रूपधेयं ‘भागरूपनामभ्यो धेयः’ इति स्वार्थिको धेयप्रत्ययः । तेन सह वर्तत इति सरूपधेयं दिव्यरूपमित्यर्थः । तादृशं अङ्गं विग्रहः यस्य तत्तथोक्तम् । बलेः तन्नाम्नः दैत्यस्य ध्वंसने ऐन्द्रपदाद्भ्रंशने दक्षिणा दक्षा ‘दक्षिणस्तु परच्छन्दानुवर्तिनि । दक्षेऽपसव्ये सरळे’ इत्यभिधानचिन्तामणिः । महती आशा तृष्णा तया कलितम् । असितं च तत् उज्ज्वलं च असितोज्ज्वलम् । सतां नन्दकं सन्नन्दकं आनन्ददमित्यर्थः । ओजः इदं विशेष्यं ‘तं देवा ज्योतिषां ज्योतिः' इति श्रुतं परं ब्रह्मेत्यर्थः । ध्यायाम इति । नन्दकपक्षे तु-- सन्नन्दकं असितोज्ज्वलं ओजश्श्रीमत् त्सरूपधेयाङ्गं इति पदचतुष्टयम् । ओजसः श्रीः संपत् अस्यास्तीत्योजश्श्रीमत् । त्सरौ मुष्टौ उपधेयं निधेयं अङ्गं यस्य तं तथोक्तम् । प्राथमिकपक्षे श्रीमत्त्सरु इत्यत्र तकारस्य ‘अनचि च' इति द्वित्वम् । ‘त्सरुः खङ्गादिमुष्टौ स्यात्’ इत्यमरः । खड्गस्य त्सर्वाधारकत्वात्तथोक्तिः । बलिनां दैत्यानां ध्वंसनः ध्वंसकः भगवान् तस्य दक्षिणः वामेतरः यो महान् शयः पाणिः तेन आकलितं दैत्यादिदक्षिणपाणिपरिगृहीतमित्यर्थः ॥ असेर्भावः असिता तया उज्ज्वलम् । संश्चासौ नन्दकश्च सन्नन्दकः तं, इदं विशेष्यम् । नन्दकाख्यं खड्गं ध्यायाम इति ॥

 यथा वा--

 समुपनतेषु प्रवणं विधूनितज्यानिघृष्टपरकोटि । वस्तु महाशार्ङ्गं चिरमस्तु मम श्रेयसे किमपि ॥