पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२६२

पुटमेतत् सुपुष्टितम्
252
अलंकारमणिहारे

 अत्र वनमहिषनिन्दया तन्मूलककर्दमनिन्दया च मूढतमस्य कस्यचित् तेन च महाब्रह्मवित्तुल्यतया ज्ञातस्य विद्वन्मानिनः कस्यचिद्वैधेयस्य च निन्दा प्रतीयत इति सारूप्यनिबन्धनाप्रस्तुतप्रशंसा व्याजनिन्दामूलकव्याजनिन्दारूपेयमिति पूर्वस्माद्विच्छित्तिविशेषः ॥ एवमेव व्याजस्तुतिमूलकव्याजस्तुतिरूपाऽप्यप्रस्तुतप्रशंसा दृश्यते ॥

 यथा--

 नन्दात्मजचूडार्हं बर्हं या तव ततान ननु बर्हिन् । साऽम्बुदमाला स्तुत्या नृत्यानन्देन किं तव स्तुत्या ॥ १०४३ ॥

 ततान वितस्तार । स्तुत्या स्तवार्हा । आनन्देन नृत्य नर्तनं कुरु नृत्यतेर्लोण्मध्यमैकवचनम् । त्वं स्वैरं नर्तनं विधेहि अस्मादृशां स्तुत्या तव किं प्रयोजनमिति भावः । यद्वा तव स्तुत्या त्वत्कर्मकस्तवेन अस्माकं किं प्रयोजनं तवाप्यतिशयाधायिकायां जाग्रत्यां कादम्बिन्यामिति भावः । किं तव स्तुत्येत्युक्तिरपि हर्षातिशयकारितेति स्तुतिपर्यवसायिन्येव ॥ अत्राप्रस्तुताम्बुदमालास्तुत्या तन्मूलकमयूरस्तुत्या च महावदान्यचूडामणेर्महालक्ष्म्यास्तत्कटाक्षाधिगतभगवदर्हणौपयिकवैभवस्य तद्भक्तस्य च स्तुतिर्गम्यत इतीयं सारूप्यनिबन्धनाप्रस्तुतप्रशंसा व्याजस्तुतिमूलकव्याजस्तुतिरूपा ॥

 यथा वा--

 बहुधाऽभिनन्दनीयस्स विधाता यश्चकोरशाब