पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२६४

पुटमेतत् सुपुष्टितम्
254
अलंकारमणिहारे

प्रकारा इत्येवाश्रयितुं युक्तम् । समविषमादिन्यायेन परस्परप्रतिद्वन्द्विनोर्विभिन्नालंकारविषयतावश्यकत्वादित्यस्माभिरन्यथोक्तम्' इत्युपपादितम् ॥

इत्यलंकारमणिहारे व्याजनिन्दासरस्त्रयस्त्रिंशः ॥


(३४) अथाक्षेपालंकारसरः


 स आक्षेपो भवेत्स्वोक्तनिषेधो यो विमर्शतः ।

 उक्तस्यार्थस्य पर्यालोचनपूर्वकः प्रतिषेध आक्षेपालंकारः ॥

 यथा--

 परिरक्ष मां प्रपन्नं पन्नगनगनाथ भवपथविपन्नम् । धन्यस्त्वय्यहमथवा विन्यस्तभरः किमन्यदाशासे ॥ १०४५ ॥

 अत्र प्रार्थितस्य स्वरक्षणस्य भगवति विन्यस्तसमस्तात्मभरत्वेन वैयर्थ्यमालोच्याथवेत्यादिना प्रतिषेधस्सूचितः ॥

 यथावा--

 त्वन्मुखरुचिधूतरुचेर्जीवितसंदेह एव सन्नेतुः । शिशिरमरीचेरथवा जैवाकृत एष कथमपि स जीवत् ॥ १०४६ ॥

 जैवातृकः दीर्घायुः 'जैवातृकः पुमान् सोमे दीर्घायुःकृशयोस्त्रिषु' इति मेदिनी । अत्र भगवन्मुखप्रभाविधूतरुचेश्शि-