पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२६६

पुटमेतत् सुपुष्टितम्
256
अलंकारमणिहारे

त्वपरिचिन्तनया प्रतिषेधोऽर्थान्तरन्यासविधया निबद्ध इति पूर्वस्मादपि वैलक्षण्यं बोध्यम् ॥

 यथावा--

 अञ्चामि त्वां किंचित्पञ्चायुधरमणि चञ्चला मा भूः । अथवाऽद्यन्तचला त्वं चलैव मध्येऽञ्चिताऽपि किं कथया ॥ १०४८ ॥

 हे पञ्चायुधरमणि! त्वां अञ्चामि पूजयामि त्वां नमामीतिवल्लोकोक्तिः । किञ्चित् अल्पकालमित्यर्थः । चञ्चला मा भूः चाञ्चल्यं विहाय स्थिरा भवेति भावः । अथवा आद्यन्तयोः चला आद्यन्तावभिव्याप्य आद्यन्तं चला वा । सर्वदा चपलशीलेति भावः । त्वं मध्ये इदानीं मदीप्सितसाधनार्थमिति भावः । अञ्चिताऽपि चञ्चला माभूरिति प्रार्थनापूर्वकमाराधिताऽपि चलैव चञ्चलैव भवसि । कथया व्यर्थवाक्यप्रबन्धेन किं न किमपि साध्यमित्यर्थः । स्वभावस्य दुरतिक्रमतया मत्प्रार्थनमकिंचित्करमेवेति भावः । पक्षे चञ्चलाशब्दः अर्थगतं स्त्रीत्वं शब्दे आरोप्यते । आद्यन्तौ चलौ च ला इति वर्णौ यस्यास्सा तथोक्ता । मध्ये अञ्चिता अविद्यमानः ञ्च इति वर्णसमुदायो यस्यास्सा तथोक्ता कृताऽपि अपिस्संभावनायां चलैव । च ला इति वर्णौ अस्याः स्त इति चला । अर्शआदित्वान्मत्वर्थीयोऽच् । चञ्चलेति शब्दः मध्यगतस्याञ्चेतिवर्णसमुदयस्य लोपश्चेत् चलेत्येव निष्पन्नो भवतीति भावः । अत्र चञ्चला मा भूरिति प्रार्थितस्यार्थस्य तत्स्वभावविमर्शेन वैयर्थ्यमालोच्य निषेधः कृतः ॥