पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२६८

पुटमेतत् सुपुष्टितम्
258
अलंकारमणिहारे

ककुवर्णविन्यासरूपा उक्तविधानुपूर्वीबोधकलिपिः तथाहि तथाविधा खलु ॥ अक्षरविन्यासभेदेन दुकूलशब्दः कुकूलशब्दोऽभूदिति भावः । अत्र भगवत्कृपया आविर्भूतं दिव्यदुकूलं सुयोधनादिविषये कुतः कुकूलतामगमदिति संदेहविषयीकृतस्यार्थस्य तल्लिपितथात्वविमर्शेन प्रतिषेधः । श्लेषविरोधाभासपदार्थवृत्तिनिदर्शनाद्युपस्कृतोऽयम् ॥

 यथावा--

 भवदीयाभाप्रसरे भान्वाभाप्रसर इह किमु स्याद्वा । अथवाऽऽभीये कार्ये तदसिद्धं व्याकृतिः प्रमाणं चेत् ॥ १०५० ॥

 हे भगवन्! इह जगति भवदीयानां भवत्संबन्धिनां भागवतानामित्यर्थः । आभायाः तेजसः प्रसरे भवत्संबन्धितेजःप्रसरे वा सति भानोः आभायाः प्रसरः किमु स्याद्वा कां गतिं प्राप्नुयाद्वा न विद्म इति भावः । अथवा आभायाः इदं अभीयं तस्मिन् ‘वृद्धाच्छः' इति छप्रत्ययः । भागवततेजस्संबन्धिनि कार्ये प्रसरणरूपकार्ये तत् आभीयं भानुतेजस्संबन्धि कार्यं प्रसररूपकार्यं असिद्धं अनिष्पन्नं अविद्यमानप्रायं स्यादित्यनुषज्यते । भागवततेजःप्रसरे भानुतेजःप्रसरो न मूर्धानमुन्नमयितुं शक्नुयादिति भावः । पक्षे आभीये ‘आभात्' इत्यधिकारविहिते कार्ये शब्दनयप्रसिद्धे कार्ये समानाश्रये कर्तव्ये इति भावः । तत् आभीयं उक्ताधिकारविहितं कार्यं असिद्धं स्यात् ‘असिद्धवदत्राभात्' इति सूत्रितत्वात् । अयं भावः--यथा एधीत्यत्र असधातोः ‘हुझल्भ्यो हेर्धिः' इति हेर्धित्वरूपे आभीये कार्ये कर्तव्ये ‘घ्वसोरेद्धावभ्यासलोपश्च' इत्यनेन कृतमाभीयं एत्व