पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२६९

पुटमेतत् सुपुष्टितम्
259
अक्षेपालंकारसरः (३४)

रूपं कार्यमसिद्धम् । यथाच आसीदित्यत्र ‘आडजादीनाम्' इत्याभीये आटि कर्तव्ये 'श्नसोरल्लोपः' इत्यल्लोपोऽसिद्ध इति ॥ समानाश्रयत्वं चैकत्र समानाधिकरणत्वं भागवतभानुतेजसोरुभयोरप्यत्रैव जगति विद्यमनत्वात् । अन्यत्र असिद्धत्वाश्रयशास्त्रसंबन्धिनिमित्तसमुदायान्यूनातिरिक्ताश्रयकत्वमिति ध्येयम् ॥ अत्र भागवताभाप्रसरे भान्वाभाप्रसरः कां गतिं प्राप्नुयाद्वेति शङ्कितस्यार्थस्य आभीये कार्ये समानाश्रये कर्तव्ये आभीयकार्यस्यासिद्धवद्भावं शाब्दिकपरिभाषितं श्लेषभित्तिकाभेदाध्यवसायेनोपजीव्याथवेत्यादिना प्रतिषेधो वर्णितः ॥ प्रमाणालंकारसंकीर्णोऽयम् ॥

 यथावा--

 अपचितविभवा रचिता विनता विमताश्च नाथ बत भवता । सर्वविदः किमुचितमिदमथवा गीतं त्वया समोऽहमिति ॥ १०५१ ॥

 अपचितः पूजितः विलूनश्च विभवो येषां ते । अपपूर्वकाच्चिनोतेरुभयार्थकत्वात् । तथाच रत्नमाला-- 'स्त्रियामपचितिः पूजानिष्कृत्योस्संक्षये व्यये' इति । अत्रापचितविभवा इत्यादिना श्लेषावलम्बनेन शङ्क्तितस्य भगवदविमर्शस्य 'समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः' इति तद्वचनमूलकसमत्वपरिचिन्तनेन प्रतिषेधः । अयं तुल्ययोगिताविशेषप्रमाणालंकारादिभिः परिपोषितः ॥

 यथावा--

 प्रतिकूलदर्शिनामप्यनुकूलदृशामिव त्वयि समानार्थम्। कमलाललामक त्वं कलयसि बत तेऽक्षरस्स्वभावो वैवम् ॥ १०५२ ॥