पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२७

पुटमेतत् सुपुष्टितम्
17
श्लेषसरः (२८)

 अत्र शार्ङ्गिशार्ङ्गयोः प्रकृतयोरेव श्लेषः । तथाहि-- समुपनतेषु शरणागतेषु प्रवणं अधीनमिति यावत् । विधूनिता निरस्ता ज्यानिः ग्लानिः येन तत् इति व्यस्तं पदम् । प्रशमितनिखिललोकम्लानीत्यर्थः । घृष्टाः पिष्टाः परेषां अरीणां कोटयो येन तत् ध्वंसितानन्तविपक्षमित्यर्थः । महत् शार्ङ्गं यस्य तत् इति भगवत्पक्षे । शार्ङ्गपक्षे तु— समुपनताः संहिताः इषवः सायकाः यस्मिंस्तत् । तत्र हेतुः प्रवणमिति । नम्रमित्यर्थः । तत्रापि हेतुमाह-- विधूनितेति । विधूनिता कम्मिता या ज्या मौर्वी तया निघृष्ठा घटितेति यावत् । परा तदाश्रयकोट्यपेक्षया अन्या कोटिः अग्रं यस्य तत् । महच्च तत् शार्ङ्गं च । किमपि वस्तु भगवद्रूपं तच्चापरूपं च वस्तु चिरं मम श्रेयसे अस्तु । इयं 'प्रथिमहितम्' इत्यादिपञ्चश्लोकी ममैव श्लिष्टपञ्चायुधीयस्तुतौ निबद्धा ॥

 यथा वा--

 अधिरूढसुगुणकोटिक्षिप्तमहापत्त्रिभुवनविख्यातम् । अच्युतशुभकरधामप्रेङ्खच्छार्ङ्गं महामहो जयतात् ॥ ८२४ ॥

 अत्रापि शार्ङ्गिशार्ङगयोरेव प्रकृतयोश्श्लेषः । तथाहि-- अधिकं रूढाः प्रादुर्भूताः प्रकाशमाना इत्यर्थः । सुगुणानां कल्याणगुणानां कोटयो यस्य तत्तथोक्तम् । पक्षे-- अधिरूढः आरूढः सुगुणः शोभना मौर्वी यस्यां सा तथोक्ता कोटिः अटनिः यस्य तदिति बहुव्रीहिगर्भबहुव्रीहिः। अधिज्याटनीत्यर्थः । क्षिप्ताः निरस्ताः महत्यः आपदः जगद्विपदः येन तत् क्षिप्तमहापत् । त्रिभुवने विख्यातम् । पक्षे— क्षिप्ताः प्रेरिताः महान्तः पत्रिणो बाणाः येन तत् क्षिप्त-

 ALANKARA II
3