पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२७०

पुटमेतत् सुपुष्टितम्
260
अलंकारमणिहारः

 कमला लक्ष्मीः ललामं भूषणं यस्य सः कमलाललामकः । 'शेषाद्विभाषा’ इति कप् । श्रीनिवास इत्यर्थः । तस्य संबुद्धिः हे कमलाललामक! त्वयि विषये अनुकूलदृशां आनुकूल्यैकरसानां विदुराक्रूरादीनामिव प्रतिकूलदर्शिनां प्रातिकूल्यैकशीलानां शिशुपालघण्टाकर्णादीनामपि त्वं समानार्थं तुल्यं पुरुषार्थं कलयसि ददासि । बतेतीदृशवितरणविचारजनिते खेदे विस्मये वा । पक्षे कमलाललामकेति तस्यैव शब्दस्य संबोधनम् । त्वं अनुलोमं पश्यतामिव प्रतिलोमं पश्यतामपि तुल्यमेवाभिधेयं प्रकाशयसीत्यर्थः । 'अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु' इत्यमरः । आनुलोम्यप्रातिलोम्ययोरभिन्नवर्णानुपूर्वीकत्वात् कमलाललामकेत्यस्य तुल्यार्थाभिधायित्वमिति भावः । बतेतीदृशशब्दस्वभावपरिशीलनजनिते हर्षे विस्मये वा । वाशब्दः अथवेत्यर्थे । ते तव अक्षरः अविनाशी इतरोपायैरचाल्य इति यावत् । स्वभावः निसर्ग एव । एवं ‘तुल्यो मित्रारिपक्षयोः' इति त्वयैव गीतत्वादिति भावः । पक्षे ते कमलाललामकेति पदस्य तव । अक्षराणां स्वभावः अक्षरस्वभावः । सकारस्य 'अनचि च' इति द्वित्वम् । वर्णानां स्वरूपं एवं एवमेव । अनुलोमविलोमपाठयोरानुपूर्व्या एकविधत्वात्तुल्यार्थप्रकाशकत्वं न विस्मयाधायकमिति भावः । अत्र प्रतिकूलदृशामित्यादिनाऽऽक्षिप्तस्यार्थस्य ते अक्षरस्वभाव एवमिति प्रतिषेधस्सूचितः । श्लेषतुल्ययोगिताविशेषोपस्कृतोऽयम् ॥

 यथावा--

 अपि घनवरशरधारावर्षी कथमिव विशोषिताब्धिरसि । अथवा दशरथनन्दन नन्वासीस्त्वं स्वयं महाधन्वा ॥ १०५३ ॥