पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२७४

पुटमेतत् सुपुष्टितम्
264
अलंकारमणिहारे

मभ्यात्तोऽवाक्यनादरः’ इति शाण्डिल्यविद्याश्रुतिरनुसन्धेया । 'अनादरः अवाप्तसमस्तकामत्वेनादर्तव्याभावादादररहितः । अत एव अवाकी परिपूर्णैश्वर्यत्वाद्ब्रह्मादिस्तम्बपर्यन्तं निखिलं जगत्तृणीकृत्य जोषमासीनः' इति श्रुतेरर्थः । वाको वचनं वचेर्घञि ‘चजोः कुघिण्ण्यतोः’ इति कुत्वम् । सोऽस्य नास्तीत्यवाकी । अत्र भगवन्तं प्रति कस्यचिदार्तस्योक्तौ दव इव भव इह मृग इव खिद्ये इत्येकदेशमुक्त्वा अलमलमिति वक्तव्यशेषनिषेधात्तत्कथनस्य वैयर्थ्यं त्वत्स्वभावत एव सुव्यक्तमिति विशेषाभिव्यक्तेरुक्तविषयोऽयमाक्षेपः वस्तुकथननिषेधात्मकः । एवंचाक्षेपे इष्टोऽर्थः तस्य च निषेधः निषेधस्यानुपपद्यमानत्वादसत्यत्वं विशेषप्रतिपादनं चेति चतुष्टयमुपयुज्यते । तेन न निषेधविधिः । न वा विहितनिषेधः । किंतु निषेधेन विधेराक्षेपः । निषेधस्यासत्यत्वाद्विधिपर्यवसानमित्याहुः ॥

 क्वचिदुच्यमानस्यैव निषेधो दृश्यत इति काव्यदर्पणकारः । तदेदमुदाहरणम्--

 पाहीति नियोक्तव्ये वक्तव्यं त्वयि नियोक्तरि न युक्तम् । रक्षेस्त्वमेव दीनान्किं प्रार्थनयेति तदिदमौदास्यम् ॥ १०५७ ॥

 तत्कुरु यदिच्छसि त्वं मुञ्चामि कथं भवन्तमिति धौर्त्यम् । रक्षन्नपि जगदखिलं कस्मान्मां नावसीत्यधिक्षेपः ॥ १०५८ ॥