पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२८०

पुटमेतत् सुपुष्टितम्
70
अलंकारमणिहारे

 जातेः द्रव्येण यथा--

 दशरथतनयो धन्वी विशकलयन् दश दिशोऽपि विष्फारैः । दशमुखपुरसदनानां शशिवदनानामभूद्युगान्ताग्निः ॥ १०६८ ॥

 अत्राग्नित्वरूपजातेर्दशरथतनयलक्षणद्रव्येण सह विरोधः ॥

 अयं श्लेषमूलकोऽपि भवति । तत्र जातेर्जातिगुणक्रियाद्रव्यैर्विरोधो यथा--

 श्रीशस्य पृथुलसत्त्वः क्रीडाद्रिर्मृदुलताभिरामतनुः । द्यामुत्पतति महिम्नाऽनन्ताख्योऽयं महत्किलाश्चर्यम् ॥ १०६९ ॥

 श्रीशस्य श्रीनिवासस्य क्रीडाद्रिर्विहाराचलः ।अत्राद्रित्वजातेः पृथुलश्चासौ सत्त्वः जन्तुरिति जात्या विरोधः । पृथुलास्सत्त्वाः प्राणिनो यस्मिन्निति वा, पृथु लसतो भावः लसत्त्वं प्रकाशो यस्येति वा, परिहारः । मृदुलतया मृदुत्वेन अभिरामतनुरिति गुणेन विरोधः, मृदवश्च ताः लताश्च ताभिरभिरामतनुरिति परिहारः । महिम्ना महत्त्वेन गुरुत्वेन द्यामुत्पततीति क्रियया विरोधः, प्रभावेन दिवमप्यतिशेते इति परिहारः । अयमद्रिः अनन्तं अन्तरिक्षमित्याख्या यस्य स तथोक्तः । आकाशत्वमेकव्यक्तिकत्वान्न जातिरिति द्रव्येण तेनाद्रित्वरूपजातेस्तदनधिकरणत्वरूपविरोधः । शेषाख्य इति तदभावः ॥

 यथावा--

 तव वाहनं पतङ्गोऽप्याशुग उन्निद्रकुवलयामोदः । उत्तम्भितोत्तमश्श्रीर्भवति जगन्नाथ कुमुदसुहृदेषः ॥ १०७० ॥