पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२८२

पुटमेतत् सुपुष्टितम्
272
अलंकारमणिहारे

 निध्यायतः पश्यतः। अत्राविलत्वप्रसन्नत्वयोर्गुणयोर्विरोधः । स्वतनयवालिस्वविरोधिदशाननादिवधरूपनिमित्तभेदेन परिहृतः ॥

 गुणस्य क्रियया विरोधो यथा--

 भवतः परितस्तपतां भवतश्चरितानि नाथ निशमयताम् । उद्यदमन्दनन्दान्यपि बत मन्दीभवन्ति चेतांसि ॥ १०७३ ॥

 अत्र उद्यदमन्दानन्दत्वरूपगुणस्य मन्दीभवनक्रियया विरोधः । विगळितवेद्यान्तराणि भवन्तीति परिहारः ॥

 गुणस्य द्रव्येण यथा--

 त्वयि विन्यस्तस्वान्ता विजयन्तां ते चिरं भुवि महान्तः । अणुरपि येभ्यो दत्तो गुणवद्भ्योऽब्जाक्ष भवति मेरुगिरिः ॥ १०७४ ॥

 अत्राणुत्वरूपगुणस्य मेरुगिरिरूपद्रव्येण विरोधः । अल्पोऽपि पदार्थो महाफलप्रद इति परिहारः ॥

 यथावा--

 तेभ्यो नमोऽस्तु सद्भ्यः परमं ये हृदि निधाय तद्ब्रह्म । स्वगुणैर्निस्पन्दतमं रचयन्तो दृढतमैरणुमकार्षुः ॥ १०७५ ॥

 अत्राणुत्वरूपगुणस्य निरतिशयबृहत्त्वयोगिपरब्रह्मरूपद्रव्येण सह विरोधः ‘ज्यायान् पृथिव्या ज्यायानन्तरिक्षात्' इत्यादिना सर्वस्माज्ज्यायस्त्वेन श्रुतस्य परस्य ब्रह्मण उपासनार्थं हृदयायतनावच्छेदेनावस्थापितत्वादिदमणुत्वमिति परिहारः । तथाच