पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२८३

पुटमेतत् सुपुष्टितम्
273
विरोधालङ्कारसरः (३५)

श्रूयते 'एष म आत्माऽन्तर्हृदयेऽणीयान्व्रीहेर्वा यवाद्वा श्यामाकाद्वा श्यामाकतण्डुलाद्वा' इति । पूर्वत्र गुणस्य द्रव्येण विरोधः अत्र तु द्रव्यस्य गुणेनेति विशेषः ॥ दृढतमैः गुणैः रज्जुभिः उपासनौपयिकगुणैश्च निस्पन्दं रचयन्तः वध्नन्तः दृढमवस्थापयन्तश्च सन्तः तद्ब्रह्म अणुमकार्षुरिति योजना ॥ निस्पन्देत्यत्र स्पदेरषोपदेशत्वान्न षत्वम् । तथाच वामनः 'निष्पन्द इति षत्वं चिन्त्यं लक्षणादर्शनात्’ इति । एतच्चास्माभिर्विस्तरेण निरूपितं हंससंदेशरसास्वादिन्यां ‘न्यस्तनिस्पन्ददृष्टिः' इत्यत्र ॥

 श्लेषमूलको गुणस्य गुणक्रियया द्रव्यैर्विरोधो यथा--

 मृदुलाऽप्यद्भुतमूर्तिर्मुग्धाऽपि जगद्धितानि वितनोषि । 'अतिचञ्चलाऽपि धात्री विचित्रमेतद्रमे तव चरित्रम् ॥ १०७६ ॥

 हे रमे! त्वं मृदुला कोमलावयवेति गुणस्य अद्भुता मूर्तिः काठिन्यं यस्या इति गुणेन विरोधः, दयामृदुहृदया सापराधैरपि सहसाऽऽश्रयितुं शक्या लोकोत्तरदिव्यविग्रहेति परिहारः । 'मूर्तिः काठिन्यकाययोः' इत्यमरः । मुग्धा अज्ञाऽपीति गुणस्य जगद्धितानि वितनोषीति क्रियया विरोधः, अज्ञानां तत्करणानीश्वरत्वात् । मुग्धा सुन्दरीति परिहारः 'मुग्धस्सुन्दरमूढयोः' इति विश्वः । अतिचञ्चलापीति गुणस्य धात्री भूमिरिति द्रव्येण विरोधः । अचलात्वात्तस्याः । अतिक्रान्ता चञ्चलामतिचञ्चला दीप्त्यतिशयपरास्तविद्युल्लता जगतां मातेति परिहारः । 'धात्री जनन्यामलकीवसुमत्युपमातृषु' इति मेदिनी ॥

 ALANKARA II
35