पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२८६

पुटमेतत् सुपुष्टितम्
276
अलंकारमणिहारे

 क्रियाया द्रव्येण विरोधो यथा--

 मारुतकुक्षिंभरिगिरिदूरतरोत्तुङ्गशृङ्गसङ्गि महः । वारितकलुषं द्विषतां भूरितरं मलिनिमानमातनुते ॥ १०८१ ॥

 अत्र मलिनिमाधानक्रियायाः महस्त्वेनाध्यवसितभगवद्रूपद्रव्येण सह विरोधः ॥

 यथावा--

 रघुतनयवटुत्रुटितोद्भटनटचापस्फुटस्वनाटोपैः । फालाक्षोऽपि चकम्पे पफाल च द्यौः पपात भुवि च ग्लौः ॥ १०८२ ॥

 अत्र कम्पादिक्रियाणां फालाक्षादिद्रव्यैर्विरोधः । पुरहरशरासनभञ्जनजनितनिर्घोषातिशयोक्त्या परिहृतः ॥

एवं क्रियायाः क्रियाद्रव्याभ्यां विरोधो दर्शितः ॥

 द्रव्यस्य द्रव्येण विरोधो यथा--

 विततायां तव कीर्त्यां सततं जगदखिलमतिविशदयन्त्याम् । कनकगिरिः कैलासो व्यालाधिपशैलशेखर बभूव ॥ १०८३ ॥

 अत्र कनकगिरिरूपद्रव्यस्य कैलासरूपद्रव्येण विरोधः । कीर्तिधवलिमातिशयप्रशंसया परिह्रियते ॥

 श्लेषेण क्रियायाः क्रियाद्रव्याभ्यां द्रव्यस्य द्रव्येण च वि-