पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२८८

पुटमेतत् सुपुष्टितम्
278
अलंकारमणिहारे

 यथा--

 भुवि कृतपदोऽपि दिवि कृतपदो द्रमिडदेशगोऽपि सकलिङ्गः । अपि शशधरो विकासितशतपत्रक एष शेषगिरिराजः ॥ १०८५ ॥

 भुवि भूमौ कृतपदः क्लृप्तावस्थानोऽपि दिवि नभसि कृतपद इति विरोधः । दिविभिः चाषापरनामभिर्विहगैः कृतनीड इति परिहृतः । द्रमिडदेशगोऽपि सकलिङ्गः कलिङ्गदेशसहित इति विरोधः । धूम्याटापरनामविहगसहित इति परिहृतः । शशधरः चन्द्रोऽपि विकासितानि शतपत्राणि कुशेशयानि येन स इति विरोधः । शशाख्यमृगविशेषावासभूतः उल्लासितदार्वाघाटाख्यखगविशेष इति परिहृतः । “अथ चाषः किकी दिविः । कलिङ्गभृङ्गधूम्याटा अथ स्याच्छतपत्रकः । दार्वाघाटः" इत्यमरः ॥

 यश्शिरसि फणादिभ्राट्पुरुषं धारयति शेषगिरिभूतः । अयमेव कुं विचित्रं मूर्धनि धत्तेहिराजिसहचरितः ॥ १०८६ ॥

 शेषस्य पतञ्जलितयाऽवतीर्णस्य गिरि वाचि महाभाष्ये भूतः स्थितः । यः फणादिभ्राट् फणादौ फणधातुप्रभृतिधातुगणे विद्यमानः भ्राट् 'टु भ्राजृ दीप्तौ’ इति धातुः । शिरसि अन्तिमवर्णे जकारे इति यावत् । पुरु भूयिष्ठं ‘पुरुभूः पुरु भूयिष्ठम्' इत्यमरः । अनितरबाधितं यथा स्यात्तथा नित्यमेवेति यावत् । षं "व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः” इति विहितं टकारपरमस्थानिभूतं षवर्णं धारयति धत्ते । राजिसहचरितः