पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२९२

पुटमेतत् सुपुष्टितम्
282
अलंकारमणिहारे

देत्यादि समस्तं पदम् । सन् प्रशस्तः यः आमोदः आनन्दः भगवत्कल्याणगुणानुभवजनित इति भावः । तेन रहिततां विन्दन्निति ॥

 असुरमहोक्षोऽत्युच्चैस्स्वरोऽथ मोहश्रितः परमुपेत्य । मिषतां नॄणामासीदसुमोक्षोऽग्रेऽच्युतात्सुमोक्षश्च ॥ १०९१ ॥

 असुरश्चासौ महोक्षश्च असुरमहोक्षः । वृषभासुर इत्यर्थः । महाराजदशरथ इतिवदयं निर्देशः । परं अतिमात्रं मोहं श्रितः 'द्वितीया श्रित’ इति समासः । भगवन्नन्दनन्दनकर्मकजिघांसा स्वानर्थस्यैव हेतुरित्यजानान इति भावः । अत एव अथ अत्युच्चैः स्वरो यस्य स तथोक्तस्सन् उपेत्य नॄणां मिषतां सर्वेषु जनेषु पश्यत्स्वेव अच्युताद्भगवतो वासुदेवात् स्ववधहेतुभूतात् असुमोक्षः शोभनमोक्षरहितोऽपि अग्रे सुमोक्षश्चासीदिति विरोधः । असून् प्राणान् मोक्षयते त्यजतीत्यसुमोक्षः शोभनो मोक्षो मुक्तिर्यस्य सः सुमोक्षश्चासीदिति परिहारः ‘मोक्ष अवसाने' इति चौरादिकत्वेन धातुवृत्तिपठिताद्धातोः कर्मण्यण् । अवसानं क्षेपः । ‘मोक्षो निश्श्रेयसे वृक्षविशेषे मोचने मृतौ’ इति हेमः ॥

 पक्षे-- अत्युच्चैः बहुवर्णसमुदायरूपत्वादतिमहानिति यावत् । असुरमहोक्षः असुरमहोक्षशब्दः स्वरः सुष्ठु अरः रेफरहितः अथ अनन्तरं सः अहश्रित इति छेदः । मः इति पञ्चम्येकवचनम् । मकारात् परं अनन्तरं अहश्रितः अहो इति स्वरव्यञ्जनाभ्यां अश्रितः रहितस्सन् मिषतां द्रष्टॄणां नॄणां असुमोक्षः आसीत् असुमोक्षशब्दतया दृश्योऽभूदिति भावः । अग्रे आदौ