पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३००

पुटमेतत् सुपुष्टितम्
289
विरोधालङ्कारसरः (३५)

स्थितः' इति । तद्ब्रह्म अद्भुतं आश्चर्यरूपमित्यर्थः । अयं श्लेषगन्धविश्लिष्टश्शुद्धो विरोधाभासः । श्रुतिरेवेदृशालंकारमार्गप्रदर्शयित्रीति ज्ञापयितुं श्रुत्युक्तार्थ एवात्र निबद्धः ॥

 इदमत्र बोध्यम्-- यत्रापिशब्दो विरोधद्योतकः तत्र विरोधश्शाब्दः । अन्यत्र त्वार्थ इति तावत्प्राचीनानां राद्धान्तः । तत्र यद्यपि विरोधस्य शाब्दत्वं न शब्दजन्यज्ञानविषयत्वं, विशेष्यविशेषणसंसर्गातिरिक्तस्य शाब्दे क्वाप्यभानात् । न च 'त्रयोऽप्यत्रयः’ इत्यादौ नञुत्तरपदार्थयोरन्वये प्रतियोगित्वस्य

ससर्गत्वात्तस्यैव विरोधपदार्थत्वात्संसर्गतयैव तद्भानमिति वाच्यम् 'सुप्तोऽपि प्रबुद्धः' इत्यादौ तथाऽप्यगतेः । न च तत्रापि लक्षणया सुप्तत्वविरुद्धप्रबुद्धत्ववदभिन्नस्सुप्त इति बोध इति वाच्यम्, तथाऽननुभवादित्युक्तव्यवस्थानुपपत्तिरिति । अत्राहुः-- सुप्तोऽपि प्रबुद्धः, त्रयोप्यत्रयः’ इत्यादिषु विरोधोदाहरणेषु शब्दद्वयेन शयितत्वजागरितत्वादिधर्मद्वयस्यादावुपस्थितौ संबन्धिज्ञानात् अपिशब्दसाचिव्यात्तद्गतो विरोधोऽपि स्मर्यते । अनन्तरं च प्रतिबन्धकज्ञानसामग्र्या बलवत्त्वाद्विरुद्धाविमौ धर्माविति मानसे वैयञ्जनिके वा बोधे जाते तेन प्रतिरोधाच्छयितजागरितयोरभेदबुद्धेरनुदयाद्द्वितीयशक्त्या प्रादुर्भावितं द्वितीयार्थमादायान्वयबोधः, न तु विरुद्धार्थम् । विरोधधीश्च शिथिलमूला निवर्तमानाऽपि कविसंरम्भगोचरतया चमत्कारकारणमिति प्राञ्चः । नव्यास्तु-- अर्थद्वयप्रादुर्भावं विना विरोधाभास एव न संभवति । तत्रैको विरोधस्योल्लासकः । द्वितीयश्चान्वयबोधविषय इति । तत्सत्यम् । परंतु अन्वयबोधविषये द्वितीयार्थे विरोधोल्लासकोऽप्यर्थो भेदेऽपि श्लेषभित्तिकाभेदाध्यवसाये-

 ALANKARA II
37