पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३०१

पुटमेतत् सुपुष्टितम्
290
अलंकारमणिहारे

नाभिन्नतया भासते । एवं चाविरुद्धं द्वितीयार्थमादायान्वयबोधे सत्यपि स्वास्पदीभूतस्य विरुद्धार्थस्य निश्शेषतया निवृत्तेरभावान्मूर्छितश्श्वसन्निव विरोधोऽपि मानसं बोधान्तरमाढौकते । अत एव चमत्कारीत्युच्यते । न हि निश्शेषतया निवृत्तश्चमत्कृतिमीष्टे जनयितुम् । न चान्तरेण चमत्कृतिजनकतामलंकारो भवति । तस्मात् विरोधधियो नातीव शिथिलमूलता । नापिचात्यन्तिकी निवृत्तिरित्याहुः । ननु अपिशब्दादीनां प्रयोगे शाब्दो विरोधो भासत इति तथाऽप्यसंगतम् । शाब्दिकनये निपातानां शक्तेरनभ्युपगमादिति चेत् न, निरूढलक्षणाया इव निरूढद्योतनाया अपि शक्तितुल्यकक्षत्वादिति ॥

अथ जात्योर्द्रव्ययोश्च विरोधालंकारो नेष्टे भवितुम् ॥
देवतरुस्तृणमासीद्देव तवौदार्यवैभवोल्लासे ।
भाति च भवत्प्रतापे कैलासगिरिर्बभूव कनकगिरिः ॥

 इत्यादौ मदीयपद्ये 'कुसुमानि शराश्चन्द्रो बाडबो दुःखिते हृदि’ इत्यादौ परकीयपद्ये च आरोपमूलस्य रूपकस्यैवोल्लासात् । यदि सत्यप्यारोपे विरोध एवोच्येत तर्हि 'मुखं चन्द्रः' इत्यत्रापि स एव कुतो नोच्यताम् । न च रूपकविषयस्याखिलस्यापि विरोधेनास्कन्दितत्वान्निर्विषयत्वापत्त्या स्वविषये रूपकं विरोधस्य गुणादौ लब्धावकाशस्यापवाद इति वाच्यम्, 'देवतरुस्तृणं-- कैलासगिरिर्मेरूगिरिः-- कुसुमानि शराः--मृणालवलयानि दवदहनराशिः-- चन्द्रो बाडबः-- शंकरचूढापगा कालिन्दी’ इत्यादौ त्वदभीप्सितविरोधस्यासिद्धिप्रसङ्ग इति चेत्-- सत्यम् । अत्र ह्यलंकारसमुदये यो यत्र सहृदयचमत्कृतिसरणिमध्यारोहति स एव तत्रालंकार इत्यविप्रतिपन्नमिदम् । एवं च