पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३०८

पुटमेतत् सुपुष्टितम्
297
विभावनालंकारसरः (३६)

प्रकारेणोत्तमगतिभाज एवेति भावः । अत एव च अव्ययलक्ष्मीभाजः शाश्वतैश्वर्यं निश्श्रेयसरूपं भजन्तीति तथा । भान्ति नित्यासंकुचितज्ञानतया दीप्यन्ते । अत्र अनिपातत्वरूपप्रतिबन्धकसद्भावेऽपि अव्ययत्वरूपकार्योत्पत्तिर्वर्णितेति लक्षणसंगतिः । श्लेषभित्तिकाभेदाध्यवसायमूलकातिशयोक्त्यनुप्राणितसमालंकारोपस्कृतेयम् ॥

 यथावा--

 फणिवरवसुन्धराधरधुरंधरकृपाभिषेकदूरतरान् । चन्द्रोपलसान्द्रालयजुषोऽपि तापाः पराभवन्ति नरान् ॥ ११०९ ॥

 अत्र शिशिरतरचन्द्रोपलसान्द्रालयस्थितिरूपप्रतिबन्धकसद्भावेऽपि तापकर्तृकाभिभवलक्षणकार्योत्पत्तिः । श्लेषसंकीर्णेयम् ॥

 यथावा--

 विनतानन्दननामनि वैहायसराजि चरति शिरसि निजे । उन्नद्धशिरा विन्दति पन्नगभूमिभृदहो महोल्लासम् ॥ १११० ॥

 विनतानन्दन इति नाम यस्य तस्मिंस्तथोक्ते । पक्षे-- प्रणतजनानन्ददायिनामधेये विहायसां पक्षिणां समूहो वैहायसं ‘प्राणिरजतादिभ्योऽञ्’ इति सामूहिकोऽञ्प्रत्ययः । तस्य राट् तस्मिन् खगराजे गरुत्मतीत्यर्तः । अन्यत्र विहायसि परमे व्योम्नि भवाः वैहायसाः अनन्तगरुडादयो नित्यमुक्ताः मुक्ताश्च तेषां राट् तस्मिन् सकलदेवाधिराजे वा भगवति श्रीनिवासे निजे शिरसि उपरिभागे इति यावत् । शिखरभागे च

 ALANKARA II
38