पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३१०

पुटमेतत् सुपुष्टितम्
299
विभावनालंकारसरः (३६)

 यथावा--

 वनभूमौ फणिभूभृति दृगग्रभागे स्थिते महाभोगे । गहनभवजन्तुसाध्वसमहह सुघोरं नृणां द्रवति दूरम् ॥ १११२ ॥

 वनभूमौ महाभोगे बृहत्फणशरीरे । पक्षे-- महान् आभोगः पारपूर्णता यस्य तथोक्ते फणिभूभृति महाशीविषे शेषाद्राविति तु तत्त्वम् । दृगग्रभागे स्थिते सति समीपवर्तिन्येव दृष्टं सतीत्यर्थः । नृणां श्रीनिवाससेवार्थं सुदूरादागतानां यात्रिकाणामिति भावः । सुघोरं अतिरौद्रं गहनभवजन्तुसाध्वसं गहने महारण्ये भवानां जातानां जन्तूनां हिंस्रसत्त्वानां साध्वसं तत्कृतं भयं दूरं द्रवति पलायते । अहह महाशरीरे महाफणे च महाशीविषे महारण्यभूमावग्रत एव दृष्टे आरण्यहिंस्रसत्त्वभयं दूरीभवतीत्याश्चर्यमेतद्दर्शनस्यैव महाभयहेतुत्वादिति भावः । परिहारस्तु-- गहनः दुःखकरः यः भवः संसारः तस्मात् जातं गहनभवजं तुशब्दोऽवधारणे उत्तरान्वयी । साध्वसं भयं दूरं तु द्रवति । यात्रिकाणां नृणां शेषाद्रिनिर्वर्णनमात्रात्संसारजनितभयमपास्तमेव भवतीति । ‘गहनं वनदुःखयोः' इति रत्नमाला । भवजन्तु इत्यत्र ‘वा पदान्तस्य' इति अनुस्वारस्य वैकल्पिकः परसवर्णो नकारः । अत्र महाव्याळदर्शनरूपप्रतिबन्धके सत्यपि यात्रिकाणामारण्यक्रूरजन्तुभयदूरीभवनरूपकार्योत्पत्तिः श्लेषभित्तिकाभेदाध्यवसायानुप्राणिता वर्णिता ॥