पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३११

पुटमेतत् सुपुष्टितम्
300
अलंकारमणिहारे

चतुर्थी विभावना.


विभावना चतुर्थी स्यात्कार्योत्पत्तिरकारणात् ॥

 अकारणात् कारणभिन्नात् कार्योत्पत्तिश्चतुर्थी विभावना ॥

 रक्षति न वेति संशयलक्षणतिमिरं निराकरिष्यन्मे । ज्योत्स्नां दशनावळ्या सरीसृपगिरीश्वरस्सरीसर्ष्टि ॥ १११३ ॥

 अत्र ज्योत्स्नाकारणभिन्नायाः यशनावळेर्ज्योत्स्नोत्पत्तिर्वर्णित्तेति लक्षणानुगतिः । दशनकिरणमसृणितं स्मितं ज्योत्स्नात्वेनाध्यवसितमिति परिहारः ॥

 यथावा--

 द्रुतमुपगूहति भगवति पिदधाना कौस्तुभं करतलेन । अङ्गुलिबिलगलिताभिस्तद्विद्युद्भिर्नताननाऽभूच्छ्रीः ॥ १११४ ॥

 अत्र करतलपिहितकौस्तुभमणिप्रभाः अनुक्षणमङ्गुलिबिलविशकलविगलिततया क्षणप्रभात्वेनाध्यवसिता इति विद्युत्कारणभिन्नात्कौस्तुभाद्विद्युज्जन्म वर्णितम् ॥

 यथावा--

 कनकाहार्यादुदिता उदारकूटास्सहस्रशोऽहार्याः । तेभ्यः खर्जूरनगास्ते च वरिष्ठं फलन्त्यतिविचित्रम् ॥ १११५ ॥