पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३१४

पुटमेतत् सुपुष्टितम्
303
विभावनालंकारसरः (३६)

पञ्चमी विभावना


कार्योत्पत्तिर्विरुद्धाच्चेत् पञ्चमी सा विभावना ।

 यथावा--

 कुम्भीनसपतिभूधरकुम्भिन्युल्लासभारमुल्ललयन् । निर्जरसिंहः कश्चन मार्जयति स्म द्विपस्य बत भीतिम् ॥ १११८ ॥

 निर्जरः युवा स चासौ सिंहश्च । पक्षे-- देवश्रेष्ठ: श्रीनिवास इत्यर्थः । कुम्भिन्याः करिण्याः भूमेश्च ‘गौरिला कुम्भिनी क्षमा' इत्यमरः। उल्लासभारं प्रकाशातिशयं हर्षातिरेकं च । अत्र कुम्भिनीद्विपोल्लासनिवर्तकतया तद्विरुद्धान्निर्जरसिंहात्तदुल्लासनतद्भीतिमार्जनरूपकार्योत्पत्तिरभिहितेति लक्षणानुगतिः ॥

 यथावा--

 नागावनीभृदुच्चैर्धिनोति केसरिकिशोरकनिकायम् । सोऽपि करिणः प्रभिन्नान् स्वगर्जितैरेव हन्त संतनुते ॥ १११९ ॥

 नागावनीभृत् गजराजः । शेषाद्रिरिति तु वस्तुस्थितिः । केसरिकिशोरकनिकायं सिंहशाबकनिकरं उच्चैः धिनोति । सोऽपि सिंहशाबकनिकरोऽपि स्वगर्जितैरेव करिणः गजान् प्रभिन्नान् मत्तान् ‘प्रभिन्नो गर्जितो मत्तः' इति गजविशेषपर्यायेष्वमरः । विदारितानिति तु तत्त्वम् । अत्र केसरिकिशोरकप्रीणनविरुद्धात् गजराजात्तत्प्रीणनरूपं कार्यं गजमदशोषकतया तन्मत्ततासंपादन-