पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३१५

पुटमेतत् सुपुष्टितम्
304
अलंकारमणिहारे

विरुद्धात्केसरिकिशोरकसमुदयात्तन्मत्ततासंपादनरूपकार्यं च वर्णितमिति विभावनाद्वयं वक्ष्यमाणैकावळीसंकीर्णमिति विशेषः । श्लेषनिर्व्यूढत्वं तु पूर्ववदेव ॥

 यथावा--

 अन्तर्हितसरलगुणो घनतरलोभान्वितोऽप्यलंकारः । मुक्ताहारोऽच्युत तव वसुविकिरणतोऽत्युदारतामेति ॥ ११२० ॥

 अन्तर्हितः तिरोहितः क्वचिदप्यप्रकाश इति भावः । तथाविधः सरलगुणः उदारगुणः यस्य स तथोक्तः । पक्षे-- अन्तः स्वच्छिद्रान्तःप्रदेशे हितः निहितः प्रोतः सरलः अग्रन्थिलतया ऋजुः गुणः सुवर्णादितन्तुः यस्य स तथोक्तः ‘सरलः पद्मकाष्ठे नाऽथोदारावक्रयोस्त्रिषु' इति मेदिनी । घनतरेण लोभेन अन्वितः । पक्षे-– घनः तरलः हारमध्यगमणिः यस्य सः घनतरलः 'तरलो हारमध्यगः' इत्यमरः । भान्वितः प्रभायुतः अत एव मुक्ताहारः त्यक्तभोजनः अतिकदर्यतया स्वोदरपूरणमप्यकुर्वाण इति भावः । तथाहि स्मर्यते कदर्यलक्षणम्--

आत्मानं धर्मकृत्यं च पुत्रदारांश्च पीडयेत् ।
लोभाद्यः पितरौ भ्रातॄन् स कदर्य इति स्मृतः ॥

इति । पक्षे-- मुक्ताहारः मौक्तिकग्रथितहार इति प्रथितः अलङ्कारः आभरणं लुब्धः कश्चित्पुमानिति व्यज्यते । वसुविकिरणतः वसूनां धनानां विकिरणतः स्वैरविश्राणनात् । पक्षे-- किरणप्रसारणात् अत्युदारः महावदान्यः अतिपूज्यश्च ‘उदारो दातृमहतोः' इत्यमरः । तत्तां एति । अत्रौदार्यविरुद्धाल्लुब्धात्तत्कार्यसंपत्तिश्लेषभित्तिकाभेदाध्यवसायेन वर्णिता । समासोक्त्युपस्कृतत्वं पूर्वस्माद्विशेषः ॥