पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३१८

पुटमेतत् सुपुष्टितम्
307
विभावनालङ्कारसरः (३६)

व्यतिकरितैः संश्लेषितैः संहितैश्च अत एव निशितैः तीक्ष्णैः आशुगैः मारुतैः बाणैश्च जडतया शैत्येन अप्रतिपत्तिमूढमनस्कतया च अतिवेपितान् अतिकम्पितान् । स्पष्टमन्यत् ॥ अत्र जडताप्रयुक्तकम्पविरुद्धाद्भानोस्तत्संपत्तिभिहिता । भानुकराणां जडताप्रयुक्तकम्पनस्य चैकस्मिन् काले असहवृत्तेः कालिको विरोध इति विशेषः ॥

 यथावा--

 कुवलयविकासदश्रीरमृतकरोऽपि स्वतस्सतां नाथः । आमोदयते पुष्करसदो महोष्णश्रिया बतैष दिवा ॥ ११२३ ॥

 एषः सतां नक्षत्राणां नाथः चन्द्रमाः स्वतः अमृतकरः शिशिरांशुरिति भावः । कुलवयविकासदश्रीरपि दिवा अह्नि महोष्णया अतितिग्मया श्रिया स्वभासा पुष्कराणां पद्यानां सदः सभां समूहमिति यावत् ‘स्त्रीनपुंसकयोस्सदः' इत्यमरः । आमोदयते सुरभीकरोति । बत इदं चित्रमित्यर्थः ॥ वस्तुस्थितिस्तु स्वतः सतां ब्रह्मविदां अमृतकरः निश्श्रेयसदाता। कुवलयविकासदा भूवलयानन्ददायिनी श्रीः लक्ष्मीः शोभा संपद्वा यस्य स तथोक्तः । एषः नाथः जगतामधीश्वरो भगवान् महोष्णा अतिपटुः श्रीः संपत् यस्यास्सा अतिमहोष्णश्रीः तथोक्त्या दिवा स्वर्गेण ‘उष्णो ग्रीष्मे पुमान् दक्षाशीतयोरन्यलिङ्गकः' इति मेदिनी । ‘दक्षे तु चतुरपेशलपटवसूत्थान उष्णश्च' इत्यमरश्च । पुष्करे सीदन्तीति पुष्करसदः । सदेः क्विप् । तान् द्युसदः देवान् ‘पुष्करं खेऽम्बुपद्मयोः' इति मेदिनी । आमोदयते प्रहर्षयते इति 'आमोदो गन्धहर्षयोः'