पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३२५

पुटमेतत् सुपुष्टितम्
314
अलंकारमणिहारे

क्तम् । ताच्छील्यार्थकचानशा तस्य प्रकाशस्यानागन्तुकत्वं सूचितम् । मुग्धतमानां अविद्याच्छादितानां अनेन ‘तद्यथा हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि संचरन्तो न विन्देयुरेवमेवेमास्सर्वाः प्रजा ‘अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढाः' इति तत्रत्यश्रुत्यर्थोऽनुसंहितः । प्रत्यूढाः प्रतीपं नीताः स्वभावान्तरं प्रापिताः आच्छादिता इति यावत् इति तदर्थः। तमस्विनी तामसी बुद्धिः मालिन्यं सांसारिकदुःखमलिनतां न जहातीति । अन्यत्र विशुद्धे विमले पूर्णे समग्रकले विधौ चन्द्रमसि गगने अन्तः अन्तरिक्षस्य मध्ये शौण्डादिगणे अन्तश्शब्दपाठाद्गगने इत्यवयविन आधारत्वविवक्षायां सप्तमी । विस्तरस्तु रसास्वादिन्यां कृतोऽस्माभिः । विलसमाने सत्यपि तमस्विनी तमःप्रचुरा बुद्धिः गुहेति गम्यते । मालिन्यं तिमिरप्रयुक्तमलीमसत्वं न विजहातीति । अत्र विधुविलसनरूपकारणे विद्यमानेऽपि मालिन्यप्रहाणरूपकार्यानुदयो वर्णितः । इयमपि पूर्ववदुक्तनिमित्तैव, तमस्विनीति मालिन्याप्रहाणनिमित्तस्य प्रतिबन्धकस्योपादानात् । पूर्वा शुद्धा उपमोपस्कृता । इयं तु श्लेषादिसंकीर्णेति भेदः ॥

 यथावा--

 अपि हरिनखपरिभूतः क्षान्त्याद्यविभासुरः क्षपाध्यक्षः । स्वान्तेत्रपाध्यलीढो ह्यनूनवर्णो बभूव स खलु जडः ॥ ११३३ ॥

 हरेः भगवतः नखैः परिभूतोऽपि क्षपाध्यक्षः चन्द्रमाः । स्वान्ते मनसि त्रपा लज्जा आधिः व्यथा ताभ्यां आलीढः