पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३२६

पुटमेतत् सुपुष्टितम्
315
विशेषोक्तिसरः (३७)

अव्याप्तः निस्त्रपो निर्व्यथश्चेत्यर्थः । अत एव क्षान्त्या तादृशपरिभवसहनेन उपलक्षितः अत एव अविकलवर्णः पूर्णवर्ण एव हिशब्दोऽवधारणे । द्यवि अन्तरिक्षे ‘द्योदिवौ द्वे' इत्यमरः । भासुरः बभूव । तत्र हेत्वन्तरमाह-- स इति । सः चन्द्रमाः जडः खलु मूढ एव हि । मूढाः प्रायेण परेभ्यः प्राप्तेऽपि परिभवे न ग्लायन्ति किंतु विवेकविधुरा हृष्यन्त्यपीति भावः ॥

 पक्षे–- क्षपाध्यक्ष इति शब्दः क्षान्त्याद्यविभासुर इति समस्तमेकं पदम् । क्षाभ्यां क्षकाराभ्यां अन्त्याद्ययोः चरमप्रथमभागयोः विभासुरः क्षरूपाभ्यां अन्त्याद्यवर्णाभ्यां विभासुर इति वा । अत्र अस्मिन् स्वान्ते स्वान्तरे क्षपाध्यक्षशब्दमध्ये इत्यर्थः । पाध्यलीढः पाध्य इति वर्णसमुदयलीढः अविकलवर्णः संपूर्णाक्षर एव बभूव । एकस्यापि वर्णस्यानपायादिति भावः । अत्र हरिनखपरिभूतत्वरूपकारणसत्त्वेऽपि त्रपाद्यनुदयो वर्णितः । जड इति त्रपाद्यनुदयनिमित्तस्य प्रतिबन्धकस्योपात्तत्वादुक्तनिमित्तैव । शब्दार्थतादात्म्यमूलकश्लेषोपस्कृतत्वं पूर्वस्माद्विच्छित्तिविशेषः ॥

 यथावा--

 सारससरसा दृक्ते प्रतिकूलोक्त्याऽपि न विकृतिलवं वा । विन्दति मुकुन्दसुन्दरि तस्यास्तादृग्विधा हि परिपाटी ॥ ११३४ ॥

 हे मुकुन्दसुन्दरि! सारससरसा कमलरमणीया तव दृक् प्रतिकूलोक्त्या स्वविप्रतीपवचसाऽपि विकृतिलवं वा विकारलेशमपि न विन्दति । महोदारगभीरहृदयायास्तव निसर्गनित्यरमणीया दृष्टिः क्षोभहेतुभूतक्षोदिष्ठप्रतिकूलगिरा न कदाऽपि वि-