पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३२९

पुटमेतत् सुपुष्टितम्
318
अलंकारमणिहारे

प्रसन्नासुहितत्वरूपकारणपौष्कल्यसद्भावेऽपि मदस्खालित्यादिकार्यानुदयवर्णनाद्विशेषोक्तिः । तादृशकार्यानुदये निमित्तं किं भवेद्वेत्यचिन्त्यमेव तत्, प्रतीत्यगोचरत्वात् । इयं श्लेषोत्तम्भितेति पूर्वादाहरणाद्वैलक्षण्यम् ॥

 यथावा--

 ननु वासराधिपस्तव सेवायै वानराधिपो जातः । रघुवीर रूपभेदेऽप्यनयोरग्राहि हन्त सनभेदः ॥ ११३७ ॥

 ननु रघुवीर! वासराधिपः भानुः तव सेवायै कैंकर्यं कर्तुं वानराधिपो जातः सुग्रीवतयाऽऽविरभूदित्यर्थः । 'आत्मा वै पुत्रनामासि' इति श्रुतेः । अनयोः वासराधिपवानराधिपोः रूपभेदे सत्यपि सः भेदः नाग्राहि । जनैरिति शेषः । हन्तेत्याश्चर्ये । अत्र रूपभेदग्रहणसामग्र्यां सत्यामपि तदग्रहणवर्णनाद्विशेषोक्तिरचिन्त्यनिमित्ता । अनयोः वासराधिपवानराधिपशब्दयोः सनभेदः सकारनकाराभ्यमेव भेदः अग्राहि नान्यवर्णैरिति वस्तुस्थितिः । अयमेव विशेषः पूर्वोदाहरणात् ॥

 इदमत्रावधेयम्-- यत्र कारणाभावकार्याभावयोः प्रतियोगितावच्छेदकविशिष्टवैशिष्ट्येन श्रुत्या प्रतिपादनं तत्र विभावनाविशेषोक्त्योश्शाब्दत्वं अन्यत्रार्थत्वमिति ॥

 यथा--

 मधुरविधां चरितसुधां मधुमथन तवानिशं समापिबताम् । प्रतिकलमविकलरूपस्तर्षोत्कर्षोऽभिवर्धते चित्रम् ॥ ११३८ ॥