पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३३२

पुटमेतत् सुपुष्टितम्
321
असंभवसरः (३८)

 यथावा--

 गोपकिशोरस्य वने तापो मा भूत्पिधेहि घन तपनम् । इत्याशासे विद्यात्का वा दावाग्निमेष पिबतीति ॥ ११४२ ॥

 यशोदाया उक्तिरियम् । घनेति जलधरस्य संबोधनम् । अत्र गोपकिशोरस्य दावाग्निपानरूपपदार्थनिष्पत्तेरसंभाव्यत्वं का वा विद्यादित्यनेनाविष्कृतम् ॥

 यथावा--

 शुभभाविभवान्दद्या इति हे रमाधिप समाश्रिता एते । शुभभाविभवानेवं हरे त्वमेषां हरेरिति न विद्मः ॥ ११४३ ॥

 शुभं कल्याणं भाः दीप्तिः विभवः ऐश्वर्यं एतेषां द्वंद्वः शुभभाविभवाः तान् । उत्तरार्धे विरोधपरिहारे हे शुभेति संबुद्धिः । भाविभवान् भविष्यज्जन्मानीत्यर्थः । अत्र शुभभाविभवहरणरूपपदार्थनिष्पत्तेरसंभावनीयता एवं हरेरिति न विद्म इत्यनेन प्रकाशिता ॥ रमाधिप हरे इति संपत्प्रदानहरणसामर्थ्याभिप्रायगर्भविशेष्यन्यसनरूपपरिकराङ्कुरश्लेषविषमविशेषसंकीर्णोऽयमिति पूर्वेभ्यो विशेषः ॥

 अयमलंकारो दीक्षितोपज्ञमेव । प्राचीनैस्तु न लक्षितः । तद्दर्शने तु प्रदर्शितेषु प्रथमेतरेषु ‘चरणत्रयमितधरणी' इत्यादिषु त्रिषूदाहरणेषु यद्यपि विरोधालंकारेण भाव्यम् । वामनादीनां द्रव्याणां जगत्त्रयाक्रमणादिक्रियाभिर्विरोधस्य स्फुटत्वात् ।

 ALANKARA II
41