पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३३४

पुटमेतत् सुपुष्टितम्
323
असंगतिसरः (३९)

 अत्र कटाक्षधाराप्रसरणौन्मुख्यलक्षणहेतोः तापलयरूपकार्यस्य च वैयधिकरण्ये अतिप्रसङ्गवारणाय विरुद्धेत्यादि । इह च विभिन्नदेशस्थितस्यैव तस्य कार्यप्रयोजकतया विरोधानवकाशः ॥ यथा--

 पवनाशनगिरिनायक नवजलदस्तव जहार रुचिविभवम् । जगतां निर्वर्णयतां भवता बत निगळितानि नयनानि ॥ ११४५ ॥

 अत्र निगळितानीत्यत्राभेदाध्यवसायलक्षणेनातिशयेन स्तेयरूपापराधहेतुकनिगळबन्धनतयाऽवस्थिते निश्चलीकरणे विषय्यंशमुपादाय तंप्रति समानाधिकरणतया प्रतीतस्य स्तेयरूपस्य हेतोर्वैयधिकरण्यज्ञानात्पुरःप्रस्फुरन्विरोधो विषयांशविमर्शोत्तरं तं प्रति रुचिहरणाभिव्यज्यमानसुषमातिशयस्य भावनोपनीतस्य हेतुतायाः प्रतिसंधानान्निवर्तत इत्यभेदाध्यवसायोऽनुप्राणयिता विरोधश्चोत्कर्षयिता ॥ इयं शुद्धा ॥

 यथावा--

 स्पीतां हरेरमुष्णात्स्वातन्त्र्यश्रियमकुण्ठितप्रसराम् । मन्दस्मितमम्ब तवाविन्दत बत मर्दनं स्तनद्वंद्वम् ॥ ११४६ ॥

 अत्र मर्दनमित्यत्राभेदाध्यवसाननिबन्धनेनातिशयेन मोषणनिमित्तकमर्दनरूपतयाऽवस्थिते निष्पीडनरूपे विषये विषय्यंशमुपादाय तंप्रति सामानाधिकरण्येन प्रसिद्धस्य कारणस्य मोषणरूपस्य वैयधिकरण्यज्ञानात्पुरतस्स्फूर्तिमान्विरोधो विषयांश-