पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३३६

पुटमेतत् सुपुष्टितम्
325
असंगतिसरः (३९)

कारा तु अपराधियोग्यो बन्धनालयवासस्तु इन्दोः तेजोविवर्धनी तेजसः छेदयित्री अजनि । बतेति खेदे । पक्षे प्रतीपा प्रतिलोमवर्णा कारा राकेत्यर्थः । तेजोविवर्धनी कलाभिवृद्धिदायिनी अजनीत्यर्थः । राकायां तस्य पूर्णत्वादिति भावः । अत्रापि कार्यकारणयोः कारावासमोषणयोर्वैयधिकरण्यम् । अन्यत्सर्वं पूर्ववत् ॥

 यथावा--

 विशदयितुं जगदखिलं दिशिदिशि जगदीश विदिशिविदिशि तथा । यशसि तव धावमाने शशिपादा हन्त भृशमखिद्यन्त ॥ ११४९ ॥

 अत्रापि पादखेदधावनयोः कार्यकारणयोर्विरुद्धं वैयधिकरण्यं वर्णितम् । शशिनः पादाः चरणाः अखिद्यन्तेति विरोधः । परिहारस्तु किरणाः स्वकरणीयस्याखिलजगद्वैशद्यस्य यशसैव कृततया स्वनैष्फल्यचिन्तनेन दैन्यमलभन्तेति । इयमपि श्लेषोपबृंहिता प्राग्वदेव ॥

 यथावा--

 कुचरूपमचलयुगलं विचचाल हृदि व्रजेन्दुवदनायाः । चित्तह्रदो विलुलितो दत्तदृशस्तत्र नन्दतनयस्य ॥ ११५० ॥

 अत्रापि कार्यकारणयोर्विलोडनाचलचलनयोर्विरुद्धा भिन्नाधिरणकता द्रष्टव्या । रूपकोपस्कृतत्वं विशेषः ॥