पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३३७

पुटमेतत् सुपुष्टितम्
326
अलंकारमणिहारे

 यथावा--

 वाराणसीमधाक्षीन्नारायणचक्रमतियुगान्तार्कम् । आपेदिरेऽरिललनास्तापाटोपं दिशस्तु विस्फोटम् ॥ ११५१ ॥

 अत्र दाहस्य कारणस्य तापविस्फोटयोश्च कार्ययोस्सामानाधिकरण्येन हेतुहेतुमद्भावशालिनोस्तद्विपरीतं भिन्नाधिकरणत्वं निबद्धम् । विस्फोटो नामाग्निदाहादिजन्यो बुद्बुदाकारस्त्वग्विकारविशेषः पिटकापरनामा । ‘विस्फोटः पिटकं त्रिषु' इत्यमरः । अन्यत्र विस्फोटः विदलनं ‘विदलः स्फुटनं भिदा' इत्यमरः ‘स्फुटिर् विशरणे' इति धातुः । पूर्वोदाहरणेषु कारणमेकं कार्यं चैकं, अत्र तु कारणमेकं द्वे कार्ये ते अपि भिन्नाधिकरणे इति विशेषः ॥

 यथावा--

 ज्यां कर्षति रघुवीरे शरावळी न्यपतदाशरावळ्याम् । सममूर्छद्विष्फारः ककुभो निष्फालिता विचित्रमिदम् ॥ ११५२ ॥

 सममूर्छत् अमुह्यत् । उच्छ्रितोऽभूदिति वस्तुस्थितिः । 'मुर्छा मोहसमुच्छ्राययोः' इति धातोस्संपूर्वकाल्लङ् । ‘सम्मूर्छनमभिव्याप्तौ संमूर्छामोहयोरपि' इति विश्वः । निष्फालिताः विशीर्णाः कृताः ‘फल विशरणे' ण्यन्तादस्मात्कर्मणि क्तः । यद्वा निष्फालो विशरणं । निष्पूर्वकात्फलेर्घञ् । स आसां संजात इति निष्फालिताः । निष्फालवत्यः कृता इति वा । निष्फालव-