पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३४१

पुटमेतत् सुपुष्टितम्
330
अलङ्कारमणिहारे

 नव्यास्तु-- व्यधिकरणत्वेन प्रसिद्धयोस्समानाधिकरणत्वेनोपनिबन्धने विरोधालंकारः । समानाधिकरणत्वेन प्रसिद्धयोर्द्वयोर्वैयधिकरण्येनोपनिबन्धने असंगतिः । प्रागुक्तासंगतिलक्षणे हेतुकार्ययोरिति च समानाधिकरणमात्रोपलक्षणम् । तेन--

 नेत्रं निरञ्जनं तस्याश्शून्यास्तु वयमद्भुतम् ।

इत्यत्र निरञ्जनत्वशून्यत्वयोरुत्पाद्योत्पादकभावलक्षणसंबन्धानन्तर्भावेन शुद्धसमानाधिकरणत्वेन प्रसिद्धयोरप्यसंगतिस्संगच्छते । यथाश्रुते तु सा न स्यात् । तथाच स्फुट एव विरोधालंकारादसंगतेर्भेद इति वदन्ति ॥


द्वितीयासंगतिः

कार्यमन्यत्र यत्तस्य ततोऽन्यत्र क्रियाऽपि सा ॥

 एकस्मिन्नधिकरणे कर्तव्यस्य वस्तुनस्तद्भिन्नाधिकरणे करणमप्यसंगतिरलंकार इत्यर्थः ॥

 यथा--

 ग्रसता पुरा हिरण्यं प्रसभं नृहरेः प्रतापहव्यभुजा । तत्सुतभीर्व्यद्राव्यत तत्सुदतीनां व्यलाप्यत च बृन्दम् ॥ ११५६ ॥

 हिरण्यं सुवर्णं, नामैकदेशग्रहणाद्धिरण्यकशिपुं च । व्यद्राव्यत द्रवीकृता । पक्षे अधाव्यत । द्रवतेर्ण्यन्तात्कर्मणि यक् । ‘द्रुतं शीघ्रविलीनयोः' इति हेमचन्द्रः । व्यलाप्यत द्रवीकृतं । विपूर्वकात् ‘ली द्रवीकरणे' इति धातोर्ण्यन्तात्कर्माणि यकि लङ् ।