पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३४३

पुटमेतत् सुपुष्टितम्
332
अलंकारमणिहारे

 यथावा--

 ननु नाथ भवतिनिष्ठां भगवन्नियतं चिकीर्षुणा कविना । क्रियते काममदादिद्विषिनिष्ठापरमपदविदा चित्रम् ॥ ११५९ ॥

 ननु नाथ! भगवन्! परमं श्रेष्ठं यत्पदं शब्दशास्त्रं तद्वेत्तीति तथोक्तेन । पक्षे परमं पदं पदनीयं परब्रह्मस्वरूपं तद्विदा । अनेन ‘तस्यैवात्मा पदवित्' इति श्रुतिः प्रत्यभिज्ञाप्यते । कविना विदुषा भवतिनिष्ठां भवतिः भूधातुः श्तिपा निर्देशोऽयं, इक्श्तिपौ धातुनिर्देशे’ इति स्मरणात् । तस्मात् निष्ठां क्तं क्तवतुं वा प्रत्ययं "क्तक्तवतू निष्ठा" इत्यनुशासनात् । अन्यत्र भवति त्वयि निष्ठां नैष्ठिकतां त्वदैकान्त्यमित्यर्थः । चिकीर्षता सता कामं पर्याप्तं यथास्यात्तथा । अदादिद्विषिनिष्ठेति समस्तं पदम् । अदादिः 'अद भक्षणे’ इत्युक्तो धातुः आदिः यस्य तथाभूते आदादिके इत्यर्थः । द्विषिः ‘द्विष अप्रीतौ’ इत्युक्तो धातुः । इका निर्देशोऽयं । तस्मिन् निष्ठा क्तः क्तवतुर्वा प्रत्ययः । अन्यत्र काममदादिद्विषीति समस्तं पदम् । कामो मदश्च आदिर्यस्य तस्मिन् द्विषि वैरिवर्गे जात्यभिप्रायकमेकवचनम् । निष्ठा नैष्ठिकता क्रियते इति चित्रम् । कामस्य मदनस्य मदं हर्षं दर्पं वा, आदिशब्देन कुतूहलादिर्गृह्यते, तं द्वेष्टीति तथोक्ते पशुपतौ निष्ठा क्रियत इत्यप्यर्थ उपस्क्रियते । काममदादिवैरिवर्गे निष्ठा नाशः क्रियत इति परिहारः । कामादिवैरिवर्गावधीरणमन्तरा भगवन्निष्ठा दुस्साधेति भावः । 'निष्ठा निष्पत्तिनाशान्ताः' इत्यमरः । अत्रान्यत्र करणीयाया निष्ठाया अन्यत्र कृतिरुपवर्णिता ।वैलक्षण्यं तु पूर्वेभ्यस्स्पष्टमव ॥